Skip to main content

Posts

Showing posts from September, 2022

दक्षेश्वर शिव मन्दिर नीदरलैंड्स

 शास्त्रस्य धर्मस्य तनोति कीर्तिं शिवस्य रामस्य जपेच्च नाम संसारकार्येऽपि हरीशचिन्ता तादृश्यहो वेदवतीति सान्द्रा|| विदिक्षु दिक्षु प्रसरेत्सुधर्मो नाशं व्रजेत् पापजतापघर्मो शिवो भवेत्सर्वजनस्य वर्म विचिन्तयन्ती सुभगा हि सान्द्रा|| जाता च या नीदरलेण्डदेशे सा सूरीनाम्ना विदिते प्रदेशे गुणप्रकर्षैश् शुभदा जनेभ्यस् सान्द्रा सती वेदवती विभाति|| महच्च पुण्यं प्रभवेन्नृणां यद् देवेषु पुण्येषु मतिर्भवेच्चेत् तद्भारते भूमितले समग्रे प्रख्यापयेद् वेदवतीति सान्द्रा|| पुण्यप्रभावान्मुनिमोदितत्वात् साधुश्रिया च प्रियशोभितत्वात् दक्षेश्वराख्ये शिवधाम्नि चाद्य आध्यक्ष्यमोदं मुदिता वहन्ती|| दक्षेश्वरस्यापि वदामि गाथां संस्थापितं मन्दिरमत्र यस्य श्रीकेतुमालेश्वरमन्दिरं च सुरेन्द्रवर्येण शिवप्रियेण|| म्लेच्छत्वमायन्ति जना पृथिव्यां भक्ष्यं ह्यभक्ष्यं न विचारयन्ति तद्वद्धरायां प्रभुपूजनानि प्रसारितानीह सुरेन्द्रवर्यै:|| "अहं पृथिव्यां सुरभक्तिकीर्तिं प्रसारयन् जीवनयापनानि करिष्य" - इत्यादिविचारपूर्णं सुरेन्द्रमीडे शिव! शङ्कराख्यम्|| म्लेच्छत्वजीवेऽपि अपुण्यगन्धे जातेऽधुना वै विपरीतबन्धे "ज...