।। जनिदिनशुभैषणम् ।।
✍✍✍✍
नृत्योल्लासरतश्शुभार्जनरतो योषिद्रतो रात्रिषु
हास्याकाशरतश्शिवार्चनरतश्शिक्षारतश्चान्वह:
विद्यादानरतो द्विजार्चनरतो द्वेषादिमुक्तस्सदा
पन्तोला ललितो भुवीह शरदो जीवेच्छतं कामये
।।१।।
मित्रप्रेमरतो धनार्जनरतो धन्यार्थिजीव्यंगमी
नानालापकलाकलापनिरतस्संगीतमोदंगमी
कालाकालपरोपकारसुरतस्सौख्यैकमार्गंगमी
पन्तोला ललितो भुवि व्रतरतो जीवेच्छतं कामये
।।२।।
यश्चैव प्रकृतिप्रियो जनिभुवस्स्मर्ता स्मरार्यर्चको
यश्चैवं सुकृतिप्रियश्शिवभुवस्स्मर्ता सुखार्थोsपि वा
ग्रामप्रेमपरोsमरप्रियधराप्राप्तोत्तराखण्डज:
पन्तोला ललितो हिमालयगतो जीवेच्छतं कामये
।।३।।
बिल्वैर्वा करवीरपुष्पनिचयैस्सम्पूजयेच्छंकरं
दूर्वाभिर्गणनाथमाशुफलदं मोदप्रदं मोदकै:
दुर्गां दुर्गतिदु:खनाशकरणीं पाठप्रियां श्रद्धया
पन्तोला सुरभक्तिसक्तिमनसा जीवेच्छतं कामये
।।४।।
शृंगेर्यां वा पिपठिषुनरान् पाठयेद्यश्शुभाश:
भोपालं वा जिगमिषुजनान् प्रापयेत्प्रेरणाश:
शिक्षां वा यो विविदिषुबुधान् बोधयेद्बोधनाश:
पन्तोला ! त्वं पपिपुरपरस्तेज एधस्व जीव
।।५।।
जनित्त्वं जानकीजानिस्सफलत्त्वं नयेन्नृणाम्।
कवेर्वा ललितस्यापि लालित्यं वर्धयेत्प्रभु:।।
पपिपुरं - चन्द्रलोक , एव परश्श्रेष्ठो यस्य स पपिपुरपर:, पन्तोला त्वं पपिपुरपरो भवेस्तथा स्वतेजश्च वर्धस्व , जीव चेत्यर्थ:।
No comments:
Post a Comment