मया तु सुन्दरीस्त्यक्त्वा काङ्क्षिता सा सरस्वती।
लक्ष्मीर्न चिन्तिता विद्वन् भ्रमामीतस्ततो द्विज:।
त्रिपुण्ड्रधारको भूत्वा शारदाया: प्रभावत:।
योषितश्च श्रियां वारो लभ्यास्स्यु: क्षणमात्रत:।।
प्रकारान्तरेण -
मया तु योषितस्त्यक्त्वा काङ्क्षिता सा सरस्वती।
त्रिपुण्ड्रधारको भूत्वा भ्रमामीतस्ततो द्विज:।।
लक्ष्मीर्न चिन्तिता विद्वन् , शारदाया: प्रभावत:।
योषितश्च श्रियां वारो लभ्यास्स्यु: क्षणमात्रत:।।
No comments:
Post a Comment