✍✍✍✍✍
जयति ह रघुनाथस्याश्रम: छात्रवर्गै:
हरिचरितसुधाभिस्सिञ्चितस्सर्ववन्द्य:
बहुविधशुभशास्त्रैरर्चनादेवकार्यै:
यमनियमजपैश्श्रीकर्षिमुद्वर्षिभात:।।१।।
जिल्लाध्यक्षमहोदयस्य नितरां कुर्मो वयं स्वागतं
आगत्य द्विजमण्डले शुभमये श्रीसंस्कृतस्यालये
येनास्मत्सुखवर्धनं कृतमहो धन्या वयं चाऽधुना
अन्यांश्चाप्यतिथीन् नुमस्सुरगिरामुद्घोषकार्यालये।।२।।
आगत्य द्विजमण्डले शुभमये श्रीसंस्कृतस्यालये
येनास्मत्सुखवर्धनं कृतमहो धन्या वयं चाऽधुना
अन्यांश्चाप्यतिथीन् नुमस्सुरगिरामुद्घोषकार्यालये।।२।।
चन्दौसीनगरस्य संस्कृतगृहं विद्यार्थिभिस्सङ्कुलम्
छात्रावासविकासहासनिरतं चाऽध्यापकैर्भूषितं
साहित्यादिकनैकशास्त्रलसितं कार्येषु सन्तत्परम्
श्रीविश्वासकुमारनामकगुरो: प्राचार्यताशोभितम्।।३।।
छात्रावासविकासहासनिरतं चाऽध्यापकैर्भूषितं
साहित्यादिकनैकशास्त्रलसितं कार्येषु सन्तत्परम्
श्रीविश्वासकुमारनामकगुरो: प्राचार्यताशोभितम्।।३।।
यत्राऽऽस्ते रघुनाथमन्दिरमहो चित्तादिसन्तोषकम्
प्रातर्वा भ्रमणाय नागरजनैश्चात्रैव संश्रीयते
पाठप्रेक्षपरीक्षवीक्षणविधौ सर्वोऽत्र दक्षायते
श्रीविश्वासकुमारनामकबुध: प्राचार्यभागस्य वै ।।४।।
प्रातर्वा भ्रमणाय नागरजनैश्चात्रैव संश्रीयते
पाठप्रेक्षपरीक्षवीक्षणविधौ सर्वोऽत्र दक्षायते
श्रीविश्वासकुमारनामकबुध: प्राचार्यभागस्य वै ।।४।।
शास्त्र्याचार्यपदे प्रयान्ति पुरुषा: यस्मादधीत्य द्रुतं
वेदज्ञानविभूषितो भवति वै यत्र द्विजानां गण:
श्रीविश्वासकुमारनामकबुधस्यादेशनैश्चाल्यते
चन्दौसीरघुनाथसंस्कृतमहाविद्यालयो भ्राजते।।५।।
वेदज्ञानविभूषितो भवति वै यत्र द्विजानां गण:
श्रीविश्वासकुमारनामकबुधस्यादेशनैश्चाल्यते
चन्दौसीरघुनाथसंस्कृतमहाविद्यालयो भ्राजते।।५।।
आनन्दब्रह्मचारी प्रथितगुणवपुश्शोभते नैकवर्षै:
नानाचार्यत्त्वमाप्त: शिवसदनसमर्चारतो यत्र नित्यं
श्रीमान् योऽत्राभिषेकोऽनुज उत भवेदाश्रमस्य प्रियोऽसौ
शोभन्ते राघुनाथे बहुविषयरता: संस्कृतश्रीयुतास्ते।।६।।
नानाचार्यत्त्वमाप्त: शिवसदनसमर्चारतो यत्र नित्यं
श्रीमान् योऽत्राभिषेकोऽनुज उत भवेदाश्रमस्य प्रियोऽसौ
शोभन्ते राघुनाथे बहुविषयरता: संस्कृतश्रीयुतास्ते।।६।।
अत्र योगश्च साहित्यशास्त्रं तथा
चांग्लभाषा च हिन्दी समाशिक्ष्यते
श्रद्धया चापि विश्वासयुक्तैश्श्रमै:
श्रीलविश्वासविज्ञैर्न किं लभ्यते?७?
चांग्लभाषा च हिन्दी समाशिक्ष्यते
श्रद्धया चापि विश्वासयुक्तैश्श्रमै:
श्रीलविश्वासविज्ञैर्न किं लभ्यते?७?
वायुयानं च वा वारियानं च वा
भूमियानं शतं यत्र निर्मीयते
अस्त्रशस्त्रादिविज्ञानसंशोभितं
संस्कृतं ज्ञानवारां निधिस्सर्वदा।।८।।
भूमियानं शतं यत्र निर्मीयते
अस्त्रशस्त्रादिविज्ञानसंशोभितं
संस्कृतं ज्ञानवारां निधिस्सर्वदा।।८।।
औषधं वा चिकित्साऽथवा वैद्यकं
शल्यविज्ञानमस्थ्यादिसंयोजकम्
स्वास्थदं रोगहं दीर्घजीव्यप्रदं
संस्कृते किं न बोधान्वितं वर्तते??९।।
शल्यविज्ञानमस्थ्यादिसंयोजकम्
स्वास्थदं रोगहं दीर्घजीव्यप्रदं
संस्कृते किं न बोधान्वितं वर्तते??९।।
अश्वशास्त्रं च वा हस्तिशास्त्रं च वा
कामशास्त्रं च वा तन्त्रशास्त्रं च वा
योगसाङ्ख्यादिवेदान्ततर्कादय:
दर्शनानीह षट् संस्कृते किं न वै?१०?
कामशास्त्रं च वा तन्त्रशास्त्रं च वा
योगसाङ्ख्यादिवेदान्ततर्कादय:
दर्शनानीह षट् संस्कृते किं न वै?१०?
धर्म-कर्मादयो नीतिरीत्यादयो
राजतन्त्रादयो गुप्तमन्त्रादयो
पञ्चतन्त्रं तथा काव्यवारां निधि:
संस्कृते किं न संदृश्यते वर्तते?११?
राजतन्त्रादयो गुप्तमन्त्रादयो
पञ्चतन्त्रं तथा काव्यवारां निधि:
संस्कृते किं न संदृश्यते वर्तते?११?
विरमामि स्ववाणीं वा सर्वस्सौख्यं समीहताम्।
देववाणी जयेदत्र संसारे सर्वदु:खहा ।।१२।।
देववाणी जयेदत्र संसारे सर्वदु:खहा ।।१२।।
©हिमांशुगौड:
No comments:
Post a Comment