।।। श्रीमहाकालाष्टकम् ।।।
************
मुदैवोज्जयिन्यां
वसन्तं वसन्तं जनैरर्च्यमानं विधानप्रधानम् ।
प्रमाणानुमानोपमानातिरिक्तं
विविक्तं जलैस्सिक्तशक्तं समीडे ।।१।।
क्वचिज्जङ्गले
मङ्गलत्त्वं दधानं श्रियाऽमङ्गलं मङ्गलत्त्वं दधानम्
सुधाधानमाधानमूलं
त्रिशूलं महाकालमीशं भजे ह्युज्जयिन्याम् ।।२।।
समस्यासमाधानमुद्यानसक्तं
पुराणोक्तवीथ्यां भ्रमन्तं भ्रमोद्धम् ।
विचारैकसञ्चारसंसारमूलं
दुकूलैर्विहीनं भजे सौख्यकूलम् ।।३।।
समीपोवनीपस्सुरूपोऽप्यरूपो
सुगोप्योऽप्यगोप्यो न हेमो न रौप्यः
समे
ब्रह्मभाण्डे भ्रमेद्यो वसेद्यो महाकालमात्मन्यहो भावयामः ।।४।।
स मृत्युस्स
जन्मापि बाल्यं युवत्त्वं
जरत्त्वं गतोऽसौ शिवो वै विलक्ष्यः ।
सदारोग्यदो
भक्तिचित्तस्य यो वै
स मृत्युञ्जयो गीयते भूतनाथः ।।५।।
अनाथोऽप्यनाथैकनाथस्सुगाथोऽप्यगाथो
वृथाऽथ भ्रमेन्न भ्रमे ना
स्वकं
बाध्यभावं विनश्य प्रसादैश्शिवस्य श्रिया श्रीमहाकाल ईड्यः ।।६।।
स
भस्माङ्गरागोऽप्यरागस्सरागो विरागो विभागैर्विभाति श्रुताद्ये
स
सन्मात्रचिन्मात्र आनन्दरूपो महाकाल आख्यस्समैर्वन्द्यविभ्राट् ।।७।।
भवत्रं शिवं
प्रेतमित्रं विचित्रं सदित्रप्रियं दुःखदारोर्लवित्रम् ।
पवित्रं
जगत्त्रं जगद्धं विपद्धं महाकालमुद्धारकृल्लोकमीहे ।।८।।
महाकालाष्टकं
चैतद्रात्रौ भक्त्या समाहितः ।
करोमीशदयाकाङ्क्षी
सौभाग्यं नो हरश्चरेत् ।।९।।
******
लेखनसमयो
दिनाङ्कश्च – १०.५० रात्रौ , १८-०७-२०१९, बृहस्पतिवासरे, गाजियाबादस्थे गृहे।
******
No comments:
Post a Comment