Wednesday, 9 December 2020

Sanskrit Geet By Himanshu Gaur

 

बिल्वपत्राणि ते चार्पयेSहं शिव!

सर्वजन्मानि ते चार्पयेSहं शिव!

बिल्वपत्राणि ते चार्पयेSहं शिव!
किं ददामीव ते किं वदामीव ते
का क्रिया चर्यतां वा मया त्वत्कृते
सर्वमेवं त्वया कल्पितं शूलधृत्!
किम्मयान्यद् वृथा त्वत्कृते चर्यताम्।।
अश्रुपातोपि नैवाद्य मे जायते
निस्सरेद् वाङ् मुखान्न स्तवायापि ते
कुत्र पूजार्चना लौकिकी धीयतां
मानसी भावनानां ततिर्दीयते
शम्भुभालस्थचन्द्रो भवेद्दु:खहा
तत्तृतीयाक्षिवह्निस्त्वरीन् सन्दहेत्
तद्गलाहिश्च फुङ्कारनिक्षेपणै:
सद्य आपत्तिसङ्घांश्च मे नाशयेत्
तज्जटागाङ्गवारि श्रियं कल्पयेत्
भोगमोक्षे स नश्शङ्कर: कल्पयेत्
नीलकण्ठस्य या नीलिमा शान्तिदा
सा नभोविस्तृते: कीर्तिमाकल्पयेत्

व्याघ्रचर्माम्बरस्तत्कटौ भूषितो
यच्छतान्नोपि वैराग्यमार्गं द्रुतम्
त्वत्त्रिशूलो हरेन्नस्त्रितापं शिव!
त्वद्वपुर्नश्शिवं सर्वदा कल्पताम् ।




No comments:

Post a Comment

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...