प्रथमराग-पराग-पराजित:
प्रियतमा-नवकेलिकला-जितो
मुकुलतामपनीय रसम्पिबन्
कुसुमताम्प्रतियापयति प्रियाम्
स्मरनिमन्त्रणदाम्प्रियकामिनीं
दिवस-भास-मयेऽपि सुचुम्बितां
रहसि गाढसुलिङ्गितभामिनीं
मदनवह्निसुवर्णवपुश्श्रियम्
विकसतीन्दुनिभा श्रमहा नृणां
कुमुदिनी खिलिता रजनी श्रिता
हृदयताप इवाप्यनया हृतस्
स्मररणाय रणन्त्यथ सागता
मुहि मुहुर्निपतेद्युवचित्तदा
मदनमन्थनसंरभवेपनं
वृणुत, इत्यनयापि विलोकितं
स्वमधुवाग्वपुषा परिवर्धितम्
मधुमयो हि ऋतुस्सरसां तट:
मदनिकाकुचयुग्ममहो घट:
करनयैरपसारिततत्पटस्
तनुत इत्रसुगन्धिमथोत्कटम्
हररिपो! तव बाणनिविद्धहृत्
क्व भजताद्भवभीतिहरं हरं
न स विपश्यति नश्यति तद्वयो
मृतिफणिर्हह दंश्यति तद्वपु:!
नवतरङ्गसमुल्लसिताङ्गवान्
नववधूप्रथमागमरात्रिके
भयविकम्पितगात्रसुचित्-तया
न सहसा परिरम्भत एव स:
रतिसमारभणे किमु सुक्रिया
प्रणयवेदन आदि किमु क्रिया
न न हि वेत्ति युवा युवती च वै
प्रकृतिभिस्सकलं सुकरं भवेत्
स्मरमये जगति क्व विरागता
शिवमये पुनरस्तु न रागता
उभयमप्यथ जीवनपद्धतौ
सुपुरुषार्थतया विनियुज्यताम्
कमलकोमलदेहमयीं च य:
रहसि वाप्य रमेत नदीतटे
पिबति दुग्धमथो महिषीभवं
क्व सुरलोकमिवापरमन्विषेत्
मदनिकारसमज्जितसद्धियां
विविधकामकलानिपुणश्रियां
हयबलैरिव धाविततेजसां
वद न वाञ्छति का युवती रतिम्
****
हिमांशुर्गौड:
०१:५५ मध्याह्ने।
१०/०५/२०२१
उदयपुरे।
No comments:
Post a Comment