।। मित्रशतकम् ।।
..............................
चिन्ताः दूरीकृताः येन चित्तं येन प्रसीदति ।
सर्वकार्येषु मे यो वै तत्परस्स सुहृत्प्रियः ।।
मित्रं हि नाम भुवि कश्चिदतीव हृद्यः चित्तञ्च यश्च
सुहृदोपि सदैव वेत्ति ।
आस्ये स्मितं परिददाति विनश्य शोकं तद्ध्यौषधं निगदितं
परितापरोगे ।।1।।
मित्राय कश्चिदितरोSपि ददाति सर्वं वित्तं गृहं न गणयन्न सुखं स्वकीयम् ।
तत्कार्यदत्तबहुयोग उतार्थदायी चेज्जीवनं ह्यपि सुहृत्
परियच्छतीति ।।2।।
स्वप्राणदानकरणैरपि मित्ररक्षी यच्चाप्यनूक्तमथवा
ह्यवगच्छतीति ।
दुःखे सुखे स सुहृदा सह वर्तते वै मित्रोपकारसरणीगणनेSस्म्यशक्तः ।।3।।
शोले-सुफिल्मपरिदर्शितमित्ररूपं जानाति को न मनुजो जगतीतलेSस्मिन् ।
धर्मेन्द्रबच्चनसुहृत्तसौख्यचर्चा वीरूजयौ हि हृदये कुरुतः
रतिम्मे ।।4।।
कर्णस्य तेन सुहृदाSथ सुयोधनेन मैत्रीं न वेत्ति मनुजः क इहार्थयुक्तः ।
प्राणान्स्वकान् तृण इव प्रतिमन्य वीरः मित्राय युद्धकरणस्स
विभाति कर्णः ।।5।।
नो जीवनं न च धनं सुहृदः कदाचित् मैत्र्यै समर्पितहृदो
गणयन्ति लेशम् ।
रत्नं सुमूल्यमिव चैतदहो विधात्रा मित्रं निधत्तमिह
सर्वसुखप्रदातृ ।।6।।
ग्रीष्मप्रचण्डहरिदश्वदिनार्धकाले पान्थोSथ चातपवशात् परितप्तदेहः ।
छायामवाप्य सुखतां परियाति नूनं तद्वत्सुमित्रतरवस्सुहृदे
फलन्ति ।।7।।
सत्यं ह्यसत्यमथवाSपि भवेस्वमित्रं दुष्टोSथ सज्जन उत
श्रितनैकमार्गः ।
न्यस्तस्वहस्तकसमस्तविपत्तिसम्पत्पन्नं च मित्रमिति नैव
कदापि हेयम् ।।8।।
चेत्त्वं धनित्त्वमयसि प्रतिभाग्यलेखात् चेद्वा यशस्त्वमयसि
प्रतिभावशाच्च ।
चेत्कामिनीपरिकुलोSसि च पुण्ययोगात् मित्रं न विस्मर कदापि विपद्गतं वै ।।9।।
मित्रोपकारमपि ये गणयन्ति नैव तस्यापकारमुत ये च चरन्ति
दुष्टाः ।
अग्रे प्रशंसनपराः कुटिलाः द्विषो ये पृष्ठे च निन्दनपराः
नरकम्प्रयान्ति ।।10।।
ब्रह्मघ्नगोघ्नमधुपार्थहरेषु केचिद् भग्नव्रतेष्वपि च
निष्कृतिरस्ति लोके ।
किन्तूपकारमपमत्य कृतेSपकारे नो निष्कृतिस्त्विति सदा विबुधाः
वदन्ति ।।11।।
तस्मात्स्वमित्रपुरुषाय ददातु सौख्यं सम्मान्य शीलपरकां च
करोतु वार्ताम् ।
तस्योदयाय सततं द्विज रे यतस्व पुण्यं लभस्व भुवि
मित्रमणिर्भव त्वम् ।।12।।
केचिद्बहिस्तु सुहृदामिव वर्तयन्ति द्वेषं सदैव हृदये दधतीति
नूनम् ।
रे मित्र तादृशजनाद्भव सावधानः ह्येते च ते
पतनमार्गकृतावधानाः ।।13।।
काले कलौ क्वचिदहो न च दृश्यते वै
आदर्शमैत्रपरिमण्डितपण्डितश्च ।
सर्वेSपि कार्यसरणाय चरन्ति मैत्रीं कार्ये गते मुखमिमे बत
विस्मरन्ति ।।14।।
कालेSधुना तु सुहृदां सुविचित्रलीला संलोक्यते हि मधुमत्तकृताSवलीला ।
नृत्यन्ति चोच्चवचनान्यपि जल्पयन्ति नष्टे धनेSन्यपुरुषेण चरन्ति मैत्रीम् ।।15।।
त्वम्मेSसि मित्रमणिरस्मि तवैव चाहं मित्रं जहामि न कदापि च ते
सुसङ्गम् ।
इत्थं विभिन्नमधुरोक्तिमिमे ब्रुवाणाः स्वार्थं हि तेन
मनुजेन सुसाधयन्ति ।।16।।
केचिद्धनाय च बलाय जनाय केचित् सौख्याय कार्यसरणाय परे च
धूर्ताः ।
नानकुनीतिपरिजालनिबद्धपुंसः[1]
सन्नर्तयन्ति सरलान् कुजनाः कदाचित् ।।17।।
नैषा स्थितिश्च पुरुषेषु सदाSवलोक्या सर्वे भवन्ति न जनाः कुपथप्रचाराः ।
मित्राणि चापि सरलानि बहुत्र भान्ति यद्वा परस्परमहो
सुखमेधमानाः ।।18।।
कृष्णस्य या हृदयभावभरी सुदाम्ना मैत्री तथा यदि भवेज्जनयोः
कयोश्चित् ।
कृष्णं विलुण्ठ्य कलिकालभवस्सुदामा राजा स्वयं भवति
चाद्यतने हि नूनम् ।।19।।
ईर्ष्यां दधाति हृदयेSस्ति तथापि मित्रं कार्यं विनश्यति सदैव तथापि मित्रम् ।
यो वा ममावनतिकृत् कुटिलोSशुभाशः सोSप्यत्र
मित्रमिति चाद्यतने विलोक्यः ।।20।।
मित्रं म्रियाद् यदि कदाचिदहं म्रियेयं दद्यात् स एव यदि
नास्ति धनं कदाचित् ।
तत्कामिनी मम भवेदिति चिन्त्यमानः धन्योSस्ति मित्रमिव कोSप्यपरोSपकारी ।।21।।
वस्तून्यपि स्वसुहृदः परिलोक्य कश्चिद् गेहञ्च यानमथवा
परिणीतरामाम् ।
कार्ये च निष्ठुर इव प्रतिवर्तमानः जातिं न तस्य कुहृदोSहमहो प्रवेद्मि ।।22।।
क्रुध्यन्ति लेशमथ चेत्प्रभवेच्च वार्ता कष्टं विवाद उत वा
प्रभवेच्च तर्कः ।
चित्ते निधाय समयं परिलोक्य दुष्टाः क्रूराश्च सर्पहृदयाः
परिघातयन्ति ।।23।।
सारल्ययुक्तहृदयस्य सदा छलैस्ते मैत्रीपवित्रपरिबन्धमपि
प्रतोड्य ।
कुर्वन्ति घातमथ किं न चरन्ति हानिं हा हा कुजन्मसरणाः
हृदयं दहन्ति ।।24।।
केचित्सदैव सुहृदामिव वर्तयन्ति युद्धे विवादसमये च
परित्यजन्ति ।
आवश्यकं यदि भवेन्न चरन्ति कार्यं धिग्धिक्कलङ्कमिव तं च
कुमित्ररूपम् ।।25।।
मित्रस्वरूपमथवाSद्य पृथक्त्वमेति भेदं न लैङ्गिकममिमे हृदये धरन्ति ।
पुंवद्भ्रमन्ति पुरुषेण सह स्त्रियश्च मैत्री विलोक्यत इयं
बहुधाSन्यरूपैः
।। 26।।
तू-तू-तुमेति च मिथः प्रवदन्ति केचिद् आपेति सभ्यदिशयापि
सरन्ति वाचम्।
गाल्यादिभिर्मुदमिमे सुहृदो व्रजन्ति भ्रष्टस्वरूपपरका
क्वचिदस्ति मैत्री ।।27।।
अश्लीलचर्चनपराः बहवस्सखायः केचित्सुरादिषु भवन्ति सदैव
मग्नाः ।
व्यर्थं भ्रमन्ति परितो रतिहिण्डकास्ते चैवं विचित्रगतिधा
बहुधाSस्ति
मैत्री।। 28।।
सभ्याश्च केचिदपरे प्रवदन्ति शास्त्रं व्यापारचर्चनपराः
गृहदुःखमग्नाः ।
केचित्तथार्द्रहृदयाः परदुःखचित्ताः मित्रेषु
नैकगतिभिस्समयो निरेति ।।29।।
संसारलग्नगतिकास्सकलास्सखायः मृत्यौ विवाहसमये प्रवहन्ति
कार्यम् ।
काले समेSपि ददति स्वमनोSनुयोगम् मित्रं विना
जगदिदं नहि रोचते मे ।।30।।
प्राचीनकालपितृमातृगुरूज्जनाश्च गम्भीरभावधरणाश्च
मितंवदाश्च ।
किन्त्वद्य नव्ययुगवीक्षणपद्धतीनां मित्रं भवन्ति तनयस्य
तथाग्रजाश्च ।।31।।
गुप्तं प्रकाशयसि मित्रजनाय चेत्त्वं दुःखं विनश्यति नवाश्च
दिशो मिलन्ति ।
दुष्टात् कुमित्रपुरुषाद् भव सावधानः सर्वेषु ते प्रभविता च
महापमानः ।।32।।
केचिद्रहस्यमपि बोद्धुमथ प्रवृत्तास्त्वन्मित्रवच्च कुजनाः
हत वर्तयन्ति ।
ज्ञाते त्वदीयहृदयस्य समग्रभावे पूर्णे समाजपटलेSपयशश्चरन्ति ।।33।।
तान् वै विवर्जय जनापसरेच्च दूरात् ये दुष्टकूटहृदयाश्च
कुचालयुक्ताः ।
सर्पाद्भयङ्करविषं परिगृह्य ते वै दंश्यन्ति, तेSथ मरणं हि सदैव शक्यम् ।।34।।
मित्रं सुगन्धिरिव जीवनकाननेSस्मिन् मित्रं च पुष्पमिव चोपवने विधेहि ।
मित्रं रसेषु मधुरं कटुभैषजं वा यद्यद्धितं स सुहृदे
परिसञ्चरेद्वै ।।35।।
मित्रं हि नाम भुवि किञ्चिदवाच्यरूपं वेलाSथ मङ्गलदिनस्य शुभप्रदा या ।
सा कौमुदी ह्यपनयेत्सकलञ्च तापं मित्रं प्रयत्नपरकैस्सततं
सुरक्ष्यम् ।।36।।
एकस्य दोष उत सम्भवति क्वचिच्च मैत्रीप्रभङ्गभवने ह्युभयोश्च
दोषः ।
स्वार्थादितोSपि मतभेदवशाद्धनाद्वा स्त्रीकारणात्तु बहुधा परिणश्यतीति ।।37।।
स्नेहाम्बुभिश्च मिथ आत्मगुणानुकूलैस्त्यागैश्च नैजसुहृदे
सुखदायियोगैः ।
सोढ्वाSपि दुःखमथ चान्यजनैश्च निन्दां सर्वप्रयत्नपरको भव मित्रतायाम्
।।38।।
ये प्रेरयन्त्यनुदिनं तव वै शिवाय दुःखाग्निदग्धमनसा न
वदन्ति किञ्चित् ।
ये नो परस्य हृदयं कटुवाक्यबाणैः छिन्दन्ति , ते हि
सुहृदेकपदं प्रयान्ति ।।39।।
दोषं परस्य शिरसाSपि वहन्ति ये वा मृत्योस्स्वमित्रपुरुषस्य गले लगन्ति ।
मित्राय सौख्यमथ ये ददति स्वकीयं धन्याः भुवि
प्रथमपूज्यपदास्सखायः ।।40।।
मैत्र्यां न वित्तगृहकीर्तिपदार्थदृष्टिर्जातिर्न देश उत
लैङ्गिकभेदसृष्टिः ।
आयुर्न भाषणमहो प्रभवेच्च बाधा प्रेम द्वयोः हृदययोः
प्रकरोति मैत्रीम् ।।41।।
संसार एव यदि शत्रुरिवाचरेच्चेत् दैवः कुचक्रमथवा हत
चालयेच्चेत् ।
त्यक्तस्समैश्च विधिभिस्सकलैर्जनैश्च मित्रं जहामि न कदापि
मम प्रतिज्ञा ।। 42।।
सूर्योदयो
भवतु वा यदि पश्चिमेपि
रात्रिर्भवेद्दिनमिदं यदि दैवयोगात्
मित्रेण साकमथ नैव कदापि कर्ण:
कार्त्घ्न्यमामरणमेव समाचरेद्वै।।43।।
हे मित्र!
चित्रमपि ते हृदये निधाय
त्वत्स्मृत्यहानि
समितानि यथाकथञ्चित्
नो विस्मृतोसि
धन मे त्वयि भावना या
तां वर्णयानि
कथमत्र भवेयमर्ह:?44।।
शस्त्राणि त्वय्यथ
पतन्ति च येऽरिवर्गै:
नूनं सहै
स्वतनुषि प्रतिकारभाव:
त्वन्मृत्युमप्यहमथो
विवृणोमि बन्धो
जानीहि
सोदरमिमं सुहृदं विशिष्टम्।।45।।
न शूरः नैव
विद्वान्यो धनिकः नैव कर्मधृत् ।
मत्कृते जगतां
रोद्धा सैव मित्रः प्रियो मम ॥
न वीर हो ना
विद्वान हो ना धनिक हो ना कर्म करने वाला हो लेकिन मेरे लिए समस्त सँसार से विरोध
लेने वाला मित्र मुझे श्रेष्ठ प्रिय है ॥
हे मित्र
सत्यमिह तेद्य वदामि सत्यं
प्राणानहं तव
कृते द्रुतमुत्सृजामि
विश्वास एव
नरयोश्शुभतां
No comments:
Post a Comment