Sunday, 5 September 2021

शोधसारः

 

शोधविषयः – वैयाकरणसिद्धान्तकौमुदीनव्यसिद्धान्तकौमुद्योस्स्वरप्रक्रियायाः तुलनात्मकमध्ययनम्

************

शोधकर्ता – हिमांशुगौडः

शोधनिर्देशकः – डॉ.कैलासचन्द्रदाशः (सहाचार्यः, व्याकरणविभागः, केन्द्रियसंस्कृतविश्वविद्यालयः,भोपालपरिसरः)

शोधसंस्था – राष्ट्रियसंस्कृतसंस्थानम्,मानितविश्वविद्यालयः,भोपालपरिसरः

विभागः – व्याकरणम्

शोधसमर्पणवर्षः - २०१९

*************************************************************************************

शोधसारः

*************************************************************************************

विषयसूचिः

भूमिका                                                -                                                        2

प्रथमोऽध्यायः                                        -                                                        4

द्वितीयोऽध्यायः                                      -                                                        6

तृतीयोऽध्यायः                                        -                                                         8

चतुर्थोऽध्यायः                                       -                                                        9

पञ्चमोऽध्यायः                                       -                                                         11

उपसंहारः                                             -                                                        13

******************************************************************

 

भूमिका

*************

          व्याकरणं ह्यद्यत्त्वेऽपि यथा प्रसिद्धिं लभते, तन्नूनमाचार्याणां सुखायैव। किन्तु व्याकरणस्यैवाङ्गभूतं यद् वेदलोकार्थनिश्चयकरं स्वरशास्त्रं नाद्यत्त्वे काश्यादिष्वपि पठनपाठनपरिपाटिगतम्परिलक्ष्यमवाप्नुते । जनाः स्वरशास्त्रग्रन्थान् अपि यथाकथञ्चिद् विलोक्यैव दुष्करो मे इत्यवगम्येव दूरादपसर्पन्ति । वैयाकरणसिद्धान्तकौमुद्याः परिष्कारपक्षपक्षिणस्तु सर्वत्रैव पक्षान् प्रसारयन्ति, प्रक्रियायामपि नैके शोद्धारः प्रक्रियन्ते स्वीयानि चेतांसि, किन्तु कौमुद्या एव पृष्ठभागे समुद्भासिताशेषस्वरां स्वरप्रक्रियामुपेक्षापक्ष एव क्षिपन्ति । वैयाकरणसिद्धान्तकौमुद्यां पाणिन्यष्टाध्यायीस्थानि स्वरसूत्राणि धातुप्रातिपादिकसमासतिङन्तस्वरप्रकरणेषूपनिबध्य प्रस्तुतानि सन्ति । वैयाकरणसिद्धान्तकौमुदीटीकासु च सुबोधिनीशेखरादिषु तद्गतार्थो वैशिष्ट्येन प्रकटीकृतम् । एवञ्च पाणिनिस्वरसूत्राणाम्भाष्येऽपि समुद्गुम्फितं व्याख्यानं, तत्स्थं कैयटमतं, तदापतितञ्चोद्योतन्नागेशमतं, सर्वामेव स्वरभ्रान्तिं ध्वंसयन्ति । एवञ्च पुष्पादीक्षितमहाशयया बिलासपुरस्थया पाणिनिशास्त्रदत्तजीवनयाऽपि नव्यकौमुदीनामग्रन्थो विरचितः । तत्र च त्रयोदशो भागो वर्तते स्वरप्रक्रियात्मकः । तस्यान्नव्यकौमुद्यामनया पुष्पया पाणिनिस्वरसूत्राणि व्यवस्थितीकृत्य व्याख्यातानि, यश्च वैयाकरणसिद्धान्तकौमुदीक्रमस्सूत्राणां यश्च नव्यव्याकरणसिद्धान्तकौमुदीक्रमस्स च भिन्नः। द्वयोरेव कौमुद्योः व्याख्यानं स्वरसूत्रगतं कयाचिद्भिन्नशैल्या कृतम्। नव्यकौमुदीकर्त्र्या पौर्विकास्स्वरसम्बद्धग्रन्थाः विलोक्य स्वनव्यशैल्या स्वरसूत्रव्याख्यासमुद्घाटनङ्कृतम् । अस्माभिरेतदभिलक्षितम् ! उभयोः कौमुद्योः स्वरप्रक्रियायाङ्को भेदः ? का चावश्यकता सत्यामपि वैयाकरणसिद्धान्तकौमुद्यां, नव्यकौमुदीविरचनस्य ? इत्यादिकानां सर्वेषां प्रश्नानामुत्तराण्यस्माभिरस्मिन् शोधे  स्वकीये तुलनात्मके दीयन्ते ! वैशिष्ट्यं त्वत्रेदमस्ति, यद्द्वयोरेव कौमुद्योर्यद्यपि कुत्रापि सूत्रार्थसम्बद्धभेदो नास्ति ! तर्हि शोधस्तु व्यर्थः। नैतच्छक्यम् ! उभयोः कौमुद्योः क्वचित्क्रमभेदः क्वचिद्व्याख्यानभेदः। क्वचिद्रहस्यख्यापनाधिकताल्पताः, क्वचिन्नानोदाहरणानान्नावीन्यम् क्वचिद्भाष्यमतोद्धरणम्, क्वचित्काशिकामतनिरासः, क्वचित्प्रदीपप्रदत्तमतोद्भासः, क्वचिदुद्योतोद्योगः क्वचिदल्पशब्दैस्तथ्यख्यापनम् क्वचिदधिकमार्गैरवबोधगत्याऽवस्थानम्। इत्येतावस्थापन्नयोः कौमुदीनव्यकौमुद्योः स्वरप्रक्रियायां किं वैशिष्ट्यमित्येतदत्र शोधैकाक्षिभिरस्माभिर्विख्यापने यत्नो   शोधेऽस्मिन्नस्माभिर्विविधशोधविधिभिस्समीक्षावीक्षापरिशलनतत्परैस्स्वाध्यायपरैः कौमुदीद्वयस्वरप्रक्रियायाम्मनो न्यवेशि ।

          अस्माभिरत्र पञ्चानां अध्यायानां विभागः कल्पितः । सर्वेषां अध्यायानाम् प्राङ्मया प्रस्तावनाऽपि नियोजिता अस्ति । यया सम्पूर्णाध्यायस्य निर्दशनम् भवितुं शक्यते । तत्र प्रथमेऽध्याये व्याकरणमाहात्म्यम्, वैयाकरणसिद्धान्तकौमुदीपरिचयस्तत्कर्तुः परिचयः, नव्यकौमुदीपरिचयस्तत्कर्त्रीपरिचयो, व्याकरणैतिह्यं, तन्माहात्म्यञ्च  प्रावोचि । द्वितीयेऽध्याये स्वरशब्दार्थविमशस्तन्माहात्म्यञ्च, स्वरभेदनिरूपणपूर्वकमुदात्तानुदात्तस्वरितस्वरानुशीलनम्, स्वराङ्कनविधिश्च निधत्तोऽत्रैव वैयाकरणकौमुद्यनुसारेण धातुप्रातिपदिकफिट्स्वराणां सामान्यपरिचयो, नव्यकौमुद्यनुसारेण धातुप्रतिपादिकफिट्स्वराणां सामान्यपरिचयः, उभयोः मतभेदानुशीलनम् (तुलना), सम्पूर्णस्य द्वितीयाध्याध्यस्य निष्कर्षख्यापनञ्च व्यधायि । तृतीयेऽध्याये क्रमशो वैयाकरणकौमुद्यनुसारेण प्रत्ययप्रकृतिस्वरयोस्सामान्यपरिचयः, उभयोः मतभेदानुशीलनम् (तुलना) वैयाकरणकौमुद्यानुसारेण आदेशागमसुबन्तस्वराणां सामान्यपरिचयो, नव्यकौमुद्यनुसारेण आदेशागमसुबन्तस्वराणां सामान्यपरिचय, उभयोः मतभेदानुशीलनम् (तुलना) सम्पूर्णस्य तृतीयाध्यायस्य निष्कर्षश्च ख्यापितः । चतुर्थेऽध्याये वैयाकरणकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचयो, नव्यकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचय, उभयोः मदभेदानुशीलनम् (तुलना) सम्पूर्णस्य चतुर्थाध्यास्य निष्कर्षख्यापनञ्च विधत्तम् । एवमेवान्तिमे पञ्चमेऽध्याये वैयाकरणकौमुद्यनुसारेण आमन्त्रिताम्रोडितवाक्यस्वराणां सामान्यपरिचयः, नव्यकौमुद्यनुसारेण आमन्त्रिताम्रेडितवाक्यस्वराणां सामान्यपरिचय, उभयोः मतभेदानुशीलनम् (तुलना) कृता, वैयाकरणकौमुद्यनुसारेण एकश्रुतिस्वरस्य सामान्यपरिचयो,  नव्यकौमुद्यनुसारेण एकश्रुतिस्वरस्य सामान्यपरिचय, उभयोः मतभेदानुशीलनम् (तुलना) सम्पूर्णस्य पञ्चमाध्यायस्य निष्कर्षनिर्धारणञ्च कृतम् । तत उपसंहारः सन्दर्भग्रन्थसूची चापिः प्रदर्शिता । साङ्केतिकशब्दविवरणम्मयाऽऽदौ एव नियोजितम् । अत्र संक्षेपरपेण शोधप्रबन्धगताध्यायानाम्परिचयः प्रस्तूयते ।

 

 

प्रथमोऽध्यायः

          सकललोकपरिपावकानाम् अस्मदृषिमुनीनां वेदशास्त्रपुराणज्ञानवारिप्रवाहो नूनमेवास्माकञ्चिरसमृद्धियुतस्य दिव्यार्षस्य भारतस्य शैवदिनानामुद्भासक एव । शास्त्राणां यन्माहात्म्यं, तत्सर्वैर्बुध्यत एव, षट्सु च शास्त्रेषु व्याकरणमहत्ताऽपि लोकमान्यैव । अतोऽस्मिन् प्रथमेऽध्याये प्रथमबिन्दुरूपेण मया व्याकरणस्य माहात्त्म्यमेव न्ययोजि ।

1.1. व्याकरणमाहात्म्यम् – व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेन इति व्याकरणम् । व्याकरणशास्त्रस्य किं माहात्म्यम् विषयेऽत्र न कोऽपि सन्देहलेशो यत् व्याकरणं विना सर्वेषां वेदशास्त्राणां अर्थावगमनम् असम्भवम् अस्ति । व्याकरणं कथं ह्यस्मत्कृते महत्वं धत्ते इत्येतत्सर्वं शोधकर्त्राऽत्र निरूप्यते ।

1.2 वैकरणसिद्धान्तकौमुद्यास्सामान्यपरिचयः -

           अष्टाध्याय्याः कार्यकालविधिमाश्रित्य रचितेषु ग्रन्थेषु यत्स्थानं वैयाकरणसिद्धातकौमुद्या प्राप्तं या च कीर्तिश्चिरस्था तया लब्धा, तदवश्यमेव ग्रन्थकर्तुः पुण्यकर्तृत्त्वं सूचयति ! अष्टाध्यायीस्थसूत्राणामस्मिन् ग्रन्थे कश्चिद्विशिष्ट एव क्रमो व्यवस्थापितः । इयं कौमुदी आदौ क्लिष्टा पश्चात्सरलाऽतो विद्वद्भिः ‘‘सिंहदाहिनी’’यं निगदिता। कौमुद्याः लोकप्रियत्त्वमनेन पद्येन ज्ञातुं शक्यते -

कौमुदी यदि कण्ठस्था वृथा भाष्ये परिश्रमः।

कौमुदी यद्यकण्ठस्था वृथा भाष्ये परिश्रमः।।

          कौमुदी चेयं चतुर्दशप्रकरणविभक्ताऽस्ति । तानि च - सञ्ज्ञा-परिभाषा- सन्धि- सुबन्त- अव्यय -स्त्रीप्रत्यय-कारक-समास-तद्धित-तिङन्त-प्रक्रिया-कृदन्त - वैदिक-स्वर-नामधेयानि सन्ति । अस्मिन् बिन्दौ मया वैयाकरणकौमुदीस्थस्वरप्रक्रियाया अत्र परिचयोऽपि प्रस्तूयते ।

1.3 वैयाकरणसिद्धान्तकौमुदीकर्तुः परिचयः -

          को न जानीते नाम  वैयाकरणसिद्धान्तकौमुद्याः रचनाकारस्य श्रीमद्भट्टोजिदीक्षितस्य । अयं भट्टः विक्रमार्कराज्ञः षोडशशतकस्य पूर्वभागे स्वजन्मना भुवमलञ्चकार । अस्यैव कृतीनां, परिवारस्य अन्येषाञ्च परिचयोऽत्र बिन्दौ मया यथालोडितशास्त्रं दीयते।

 

1.4 नव्यसिद्धान्तकौमुद्यास्सामान्यपरिचयः - 

          नव्यशोधयुतेऽस्मिन् काले विद्वद्भिरनुदिनं शोधग्रन्थाः लिख्यन्ते, प्राचाम्मतानि चोद्ध्रीयन्ते स्वमतानि चापि विख्याप्यन्ते, सरलत्त्वं च विशेषेण ग्रन्थेषु निवेश्यन्ते ! एतादृशीमेव परिपाटीमुद्वहन्ती श्रीपुष्पादीक्षिता नव्यसिद्धान्तकौमुदीग्रन्थं ग्रथिवती । इयं नव्यकौमुदी चतुर्दशभागेषु विभक्ता वर्तते, येषु पञ्च भागाः प्रकाशिताः अन्ये च प्राकाश्याः सन्ति । तत्र त्रयोदशो भागो स्वरप्रक्रियात्मकः अस्ति। अत्र नव्यकौमुदीग्रन्थपरिचयपूर्वकम्मया स्वरखण्डस्य विशेषविवेचनं विधीयते।

1.5 नव्यसिद्धान्तकौमुदीकर्त्र्याः परिचयः -

          अस्मिन् संसारे अनेके पुरुषाः जन्म लभन्ते तथा म्रियन्ते परन्तु तेषामेव जीवनं सफलीभवति, ये शास्त्राय जीवन्त्युपकुर्वन्ति चान्यान् अपि। एतादृशीमेव काञ्चित्परम्परामुद्वहन्ती श्रीपुष्पादीक्षितमहाशया बिलासपुरस्था वृद्धत्त्वं धन्यीकुर्वन्ती नानाऽध्येतृभ्यो व्याकृज्ज्ञानं  प्रददाति । तासामेव परिचयो मयाऽत्र सामान्यरूपेण प्रस्तूयते

1.6 व्याकरणैतिह्यम् -

          व्याकरणशास्त्रस्य समृद्धम् ऐतिह्यं नूनमेवाद्यापि जनांश्चमत्करोति। व्याकरणशास्त्रं ह्यादिकाले महेश्वरादारभ्य अन्यैश्चापि महर्षिभिः प्रोक्तम् । अस्य नवधा भेदा रामायणकाले दृष्टाः - ‘‘सोऽयं नवव्याकरणार्थवेत्ता’’। अष्टभेदा अपि -

ऐन्द्रश्चान्द्रः काशकृत्स्नापिशली शाकटायनः

पाणिन्यमरजैनेन्द्राः अष्टौ व्याकरणानि हि ।।

तथा चात्रास्माभिः व्याकरणशास्त्रस्य परम्परायाः विभिन्नाचार्याणां कालः कृतयः नामानि च प्रस्तूयन्ते । पाणिनिपूर्ववर्तिनां समकालिकानां पाणिनेः परवर्तिनां च आचार्याणां परिचयः सामान्यरूपेण अत्र प्रस्तुतमस्ति । एवम्प्रकारेण शोधैकपक्षापन्नैरस्माभिरत्र व्याकरणैतिह्यं स्वाध्यायानसारं समाशील्यते।

द्वितीयोऽध्यायः

          अत्र द्वितीयेऽध्याये शोधकर्त्रा ऐदम्प्राथम्येन ‘‘स्वरशब्दार्थविमर्शस्तन्माहात्म्यञ्च वक्ष्यते । अस्मिन् बिन्दौ मया स्वरशब्दस्य कोऽर्थः? स्वरशब्दस्य के पर्यायवाचिनश्शब्दाः? नैकेषु उपनिद्ब्राह्मणग्रन्थेषु च स्वरशब्दस्य किं व्याख्यातव्यस्वरूपम् ? काऽस्य व्याकरणसम्मता व्युत्पत्तिरित्यादिप्रश्नानां यथापरिशीलितशास्त्रम् उत्तराणि दीयन्ते । स्वरभेदनिरपणमपि मयाऽस्मिन् क्रियते । उदात्तानुदात्तस्वरितानुशीलनमपि च नानाग्रन्थविलोडनद्वारा प्राप्ततथ्यान् आधारीकृत्य क्रियते। स्वराङ्कनविधिश्चापि सामान्यतयाऽत्र परिचीयते

2.4.वैयाकरणसिद्धान्तकौमुद्यनुसारं धातुप्रतिपादिकफिट्स्वराणां सामान्यपरिचयः – वैयाकरणसिद्धान्तकौमुद्याः स्वरप्रक्रियायां, धातूनां स्वराः क्व भवेयुः, इत्येतद्भ्रमनिरासाय धातुस्वरः इत्यध्यायो वर्तते । पाणिनिशास्त्रे धातूनां सामान्यरूपेण अन्तोदात्तः प्रोक्तः । किन्तु तदनन्तरं विशिष्टनियामकानि अपि सूत्राणि उपदिष्टानि । ततः अनन्तरम् अभ्यस्तानामादिः[1] एतेन अभ्यस्तसंज्ञकस्य आद्युदात्तः क्रियते । अनुदात्ते च[2] इत्येतदपि आद्युदात्तविधानं करोति धातोः । एवं दृश्यते यत् अत्र पूर्वं सामान्यतया धातुस्वरविषये सामान्यनियमत्वेन अन्तोदात्तविधानं कृतं ततः विशेषैः सूत्रैः तदपवादाः प्रोक्ताः । शोधकर्त्रा तस्य प्रकरणस्य मुहुर्मुहुरध्ययनं कृत्त्वा, चिन्तनं तद्वियकं च विधाय, अत्र द्वितीयेऽध्याये धातुस्वराणां यथाशास्त्रं सामान्यपरिचयो दीयते। तथैव च वैयाकरणसिद्धान्तकौमुद्यां प्रातिपादिकस्वराणामपि निर्देशस्समुपलभ्यते। अत्र चतुरः शसि[3]  झल्युपोत्तमम्[4]  इत्यादीनि सूत्राणि प्रोक्तानि सन्ति सिद्धान्तिकौमुद्याम् ।  तस्यापि चाध्ययनं कृत्त्वा मयाऽत्र यथाग्रन्थं तत्प्रस्तूयते । फिट्सूत्राण्यपि वैयाकरणसिद्धान्तकौमुद्यां प्रोक्तानि सन्ति। फिट् इति प्रातिपादिकसंज्ञाऽस्ति प्राचाम् आचार्याणाम् । फिट्सूत्राणि शान्तनवाचार्यविरचितानि सन्ति । एतानि चतुर्षु पादेषु विभक्तानि सन्ति । वैयाकरणसिद्धान्तकौमुद्यां यथावदेतेषां सन्निवेशः कृतः । एतानि फिट्सूत्राणि कौमुद्यां सरलरीत्या सोदाहरणानि व्याख्यातानि सन्ति । एषां वीक्षणमात्रेणैव तद्गतावबोधः सारल्येन भवितुं शक्नोति । तान्यपि मया वैयाकरणसिद्धान्तकौमुद्याः क्रमेणैव समुपस्थापितानि स्वाध्यायवशाच्च स्वकीयेषु शब्देषु द्वितीयेऽस्मिन्नध्याये यथाग्रन्थं समुपवर्णितानि च

 

2.5 नव्यसिद्धान्तकौमुद्यनुसारेण धातुप्रातिपदिकफिट्स्वराणां सामान्यपरिचय -

नव्यकौमुद्यामपि धात्वादिस्वराणां व्याख्यानं प्राप्यते, किन्तु तत्र तत् किञ्चित्पृथग्रपेणप्रोक्तमस्ति। नव्यकौमुद्यां धातुस्वराध्याये केवलं धातोः इत्येकसूत्रमात्रमेव दत्तम् । सन्क्यच्काम्यचादीनां च स्वराः तत्र अल्पशब्दैः प्रोक्ताः, यानि वैयाकरणसिद्धान्तकौमुदीस्थानि धातुस्वरप्रकरणे सूत्राणि प्रोक्तानि सन्ति, तानि नव्यसिद्धान्तकौमुद्यां प्रकृतिस्वराध्याये योजितानि सन्ति। एवमेव नव्यसिद्धान्तकौमुद्यां प्रातिपादिकस्वरसूत्राणामुत च फिट्स्वरसूत्राणां क्रमविभागोऽपि वैयाकरणसिद्धान्तकौमुद्यपेक्षया भिन्नोऽस्ति, व्याख्यानरीतिश्च पृथगस्ति, किन्तु सूत्राणाम् अर्थसम्बन्धे द्वयोरेव कौमुद्योर्न कोऽपि भेदो लभ्यते

2.6 धातुप्रातिपदिकफिट्स्वरसन्दर्भे उभयोः कौमुद्योः मतेभेदानुशीलनम् (तुलना) –

धातुस्वरव्याख्याने कौमुद्यां नव्यकौमुद्यां च भेदोऽयमेवावलोक्यते यत् सिद्धान्तकौमुद्यां यानि सूत्राणि धातुस्वरप्रकरणे प्रोक्तानि तानि नव्यकौमुद्यां प्रकृतिस्वरप्रकरणे सन्ति। अतः प्रकृतिस्वरतुलनाऽवसरे एव तत्तत्सूत्राणां तुलना शोधकर्त्रा विधीयते । तथा च फिट्सूत्रप्रकरणे उभयोरेव कौमुद्यो बहवो भेदाः दृक्पथमायान्ति । तथैव प्रातिपदिकस्वरव्याख्याने अपि द्वयोः कौमुद्यो यो भेदः तत्सर्वम्मया अत्र समुद्घाटनं कृतम् अस्ति । अत्रेदं ध्यातव्यमस्ति यदुभयोः कौमुद्योः यानि सूत्राणि तुलनायोग्यानि, श्च व्याख्यानभेदोऽथ स्वरसम्बन्धिमतभेदस्तत्सर्वं यथालोडितशास्त्रं विविच्यते । ततश्च -

2.7 द्वितीयाध्यायस्य निष्कर्षख्यापनम् -

          अत्र अस्माभिः सम्पूर्णस्य द्वितीयाध्यायस्य निष्कर्षरूपः कथ्यते । इत्येतत्प्रकारेणेयं द्वितीयाध्यायस्वरलीलाऽत्र धात्वादिवियिणी शोधैकपक्षिभिरस्माभिरत्र समुपस्थाप्यते

 

 

 

 

तृतीयोऽध्यायः

          तृतीयेऽस्मिन्नध्याये प्रत्ययस्वरप्रकृतिस्वराणां अथ च आदेशागमसुबन्तस्वराणां परिचयः कौमुदीद्वयपरिप्रेक्ष्ये कृत्त्वा, तत्तुलना निष्कर्षश्च ख्याप्यते।

3.1 वैयाकरणसिद्धान्तकौमुद्यनुसारं प्रत्ययस्वरप्रकृतिस्वरयोः सामान्यपरिचयः -

अथादौ प्रत्ययस्वरपरिचयः -

          प्रत्ययस्वरास्ते भवन्ति, ये प्रत्ययमुद्दिश्य सूत्रैनिर्दिश्यन्ते । प्रत्ययसम्बन्धसामान्यनियमोऽस्ति यत् प्रत्यय आद्युदात्त एव स्यात् आद्युदात्तश्च इति सूत्रेण ! ततश्चास्यानेकेऽपवादा अपि प्रोक्ताः । यथा- अनुदात्तौ सुप्पितौ, चितः, तद्धितस्य कितः - इत्येतानि सूत्राण्यपवादत्त्वेन प्रत्ययस्य अन्तोदात्तविधानं कुर्वन्ति । इतयेतत्प्रकारकं प्रत्ययस्वरविधानं वैयाकरणकौमुद्यां विवेचितमस्ति, तस्यैव परिशीलनङ्कृत्त्वा, तदत्र प्रस्तूयते

वैयाकरणसिद्धान्तकौमुद्यनुसारेण प्रकृतिस्वरः - एतन्नामको कऽपि अध्यायो वैयाकरणकौमुद्यां नास्ति,  नव्यकौमुद्यां यानि सूत्राणि प्रकृतिस्वरप्रकरणे प्रोक्तानि तानि सिद्धान्तकौमुद्यां धातुस्वरप्रकरणे कथितानि, अतः पूर्वमेव धातुस्वरप्रकरणे एतेषां सर्वेषां प्रवचनत्वात् अत्र न पुनः कथयिष्यते

3.2 नव्यकौमुद्यनुसारेण प्रत्ययस्वरप्रकृतिस्वरयोः सामान्यपरिचयः -     

नव्यसिद्धान्तकौमुद्यां प्रत्ययस्वरसन्दर्भे प्रकृतिस्वरसन्दर्भेत्तमरीत्या व्याख्यानं प्राप्यते । नव्यकौमुद्यां प्रत्ययस्वरसन्दर्भे प्रकृतिस्वरसन्दर्भे च सारल्ययुक्तशैल्या प्रयोगः कृतः अस्ति । एवञ्च शेखरसुबोधिनीटीकासु यानि तथ्यानि प्राप्यन्ते , तानि अपि चात्र बहुत्र दृग्गोचरीभवन्ति । भाष्यस्य साहाय्यमपि चात्र नव्यकमुदीकर्त्र्या गृहीतमस्ति । प्रकृतिशब्देनात्र धातुर्गृह्यते । अतः सिद्धान्तकौमुद्यां यानि सूत्राणि धातुस्वरप्रकरणे सन्ति तानि नव्यकौमुद्यां प्रकृतिस्वरप्रकरणे व्याख्यातानि सन्ति ।  

3.3 प्रत्ययस्वरप्रकृतिस्वरसन्दर्भे मतभेदानुशीलनम् -

          शोधकर्त्रा एतदनुभूतं यद् उभयोरेव कौमुद्योः प्रत्ययप्रकृतिस्वरसन्दर्भे नैकत्र भिन्नता अस्ति । नव्यकौमुद्यां बहूनि तथ्यानि तादृशानि अपि प्राप्यन्ते यानि कौमुद्यां मूले सूत्रस्य व्याख्यास्थले नोक्तानि , एतत्सर्वं समातोलनं कृत्वा अत्र मया दर्शयिष्यते ।

3.5 वैयाकरणकौमुद्यनुसारेण आदेशागमसुबन्तस्वराणां सामान्यपरिचयः -

नव्यकौमुदीवत् सिद्धान्तकौमुद्यां स्वरप्रकरणे आदेशागमसुबन्तस्वराणां कृते विशिष्टप्रकरणं नास्ति । प्रक्रियास्थलेषु अन्यत्र प्रकरणेषु तानि तत्र प्रोक्तानि सन्ति  । नहि तत्र तेषां स्वररूपेणैव विशेषविभावनं कृतमस्ति । अतस्सिद्धान्तकौमुद्यां स्वरप्रकरणे तेषाम् अनुक्तत्वात् अत्र मया तत् न व्याख्यातम् ।

3.6 नव्यकौमुद्यनुसारेण देशागमसुबन्तस्वराणां सामान्यपरिचयः –

  बहूनि सूत्राणि अष्टाध्याय्यां तादृशानि सन्ति यानि आदेशविधानं तु कुर्वन्ति एव सहैव स्वरविधानम् अपि कुर्वन्ति । यथा सहस्य सध्रिः इति सूत्रं सहस्य सध्रिरित्यादेशं करोति स च उदात्तो भवति । एवमेव आगमकराण्यपि बहूनि सूत्राणि तथा सन्ति, तेषां नव्यकौमुद्याम्प्रकरणे अत्र व्याख्यानम्प्राप्यते,यथा - लुङ्लङ्लृङ्क्ष्वडुदात्तः- अनेन अडागमो भवति, स चोदात्तः भवत्यतः आगमस्वरप्रकरणे नव्यकौमुद्यामस्य निवेशः कृतः। एतत्सर्वं  मया अत्र नव्यसिद्धान्तकौमुद्याः परिशीलनाधारेण तत्वरूपेण समुपस्थापितम् ।

तृतीयाध्यास्य निष्कर्षख्यापनम् –

अत्र शोधकर्त्रा क्रमशः सम्पूर्णाध्यायस्य निष्कर्षः प्रोच्यते । अत्र मयैतद्वैशिष्ट्येन प्रोच्यते यत् प्रत्ययस्वरप्रकृतिस्वरसन्दर्भे मयोभयोरेव कौमुद्योस्समाशीलङ्कृतन्तेन च निष्कर्षोऽप्ययमेवावापि यद्बहुषु सूत्रेषु दृश्यते नव्यकौमुद्यां व्याख्यानस्य सारल्यं, नानाटीकोट्टीप्पणं च, कौमुद्याञ्चाल्पशब्दैस्तथ्योद्भासो लभ्यते । अत एव अवगमनसौकर्याय नव्यकौमुदीस्थं प्रत्ययप्रकृतिस्वरव्याख्यानमतीवापयोगी अस्ति । किन्तु तथाप्युभयोःकौमुद्यो स्वरसम्बन्धभेदस्तु नास्त्येव ! एवमेव आदेशागमसुबन्तस्वरसन्दर्भे अपि निष्कर्षरूपेण एतद्वक्तुं शक्यते यत् नव्यकौमुद्यामेतेषां प्रकरणानां सन्निवेशेन स्वरग्रन्थस्य अस्य महत्वं वर्धत एव ।

 

चतुर्थोऽध्यायः

          चतुर्थोऽयमध्यायो वर्तते समासस्वरात्मकः। अत्र द्वयोः कौमुद्योरालोके समासस्वरसम्द्धभ्रमध्वंसोऽस्माभिश्चर्यते। तत्र प्रथमबिन्दुः -

4.1 वैयाकरणसिद्धान्तकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचयः- अत्रास्माभिर्वैयाकरणकौमुद्याः परिशीलनङ्कृत्त्वा समासस्वराणां परिचयोऽदायि । वैयाकरणसिद्धान्तकौमुद्यां समासस्वरसम्बद्धसूत्राणां क्रमोऽष्टाध्यायीमनुसृत्यैव वर्तते । तत्र श्रीमद्भट्टोजिदीक्षितेनाष्टाध्याय्यनुसारमेव समासस्य[5] इत्यनेन समासस्य अन्तोदात्तो भवतीत्युक्तम्, ततोऽपवादत्त्वेन बहुव्रीहौ प्रकृत्या पूर्वपदम्’’ इत्यादिसूत्रेण सामान्यसमासस्वरस्यापवादाः प्रोक्ताः । वैयाकरणसिद्धान्तकौमुद्यां समासस्वराणां वैशिष्ट्यमिदमस्ति यत्तत्र समासस्वरवियकसूत्राणामुपन्यासोऽष्टाध्यायीक्रमेणैव कृतः । अतोऽत्र मया वैयाकरणकौमुदीक्रमेण सामान्यतया समासस्वराणाम्परिचयो दीयते

4.2 नव्यकौमुद्यनुसारेण समासस्वराणां सामान्यपरिचयः – नव्यकौमुद्यां वर्तते कश्चिद्विशिष्टः क्रमः सूत्राणां तद्व्याख्यानस्य च । अत्र समासस्वरसन्दर्भे नव्यकौमुद्याः वैशिष्ट्यमिदमस्ति यत्- नव्यकौमुद्यां सर्वेषां समासानां स्वरा पृथक्कृत्य प्रोक्ताः। यथा- आदौ बहुव्रीहिस्वरास्ततस्तत्पुरुस्वरास्ततोऽव्ययीभावस्वरास्ततश्च द्वन्द्वस्वराःप्रोक्तास्सन्ति । अतो मयाऽत्र तत्क्रमेणैव कानिचित् सूत्राणि नव्यकौमुद्याः शैलीगतवैशिष्ट्यस्य आलोके व्याख्यातानि, विशिष्टतत्त्वानि चैतद्विषयकाणि विख्याप्यन्ते

4.3 समासस्वरसन्दर्भे उभयोः कौमुद्योः मतभेदानुशीलनम् -

अत्र द्वयोरेव कौमुद्योः समासस्वरपरिप्रेक्ष्ये तुलनापरकतथ्यानि मया वीक्षितानि, तत्सर्वमत्र परिशील्यते

          कस्यां कौमुद्यां किं तथ्यं प्रोक्ताः, किञ्च न प्रोक्तम् इत्यपि मयाऽत्रैव तुलनावसरे विज्ञाप्यते । महाभाष्यादिमतानां समाशीलनपूर्वकम्मया एषा समासस्वरतुलनाऽऽचर्यते । अस्मिन् तुलनात्मके बिन्दौ मया तान्येव सूत्राणि गृहीतानि, यानि कैश्चिदपि मार्गेस्तुलनायोग्यानि भाष्यादिभिरपि समुद्गुम्फितानि च । अत्र उभयोः कौमुद्योरध्ययनेन प्राप्तं स्वमतमपि किञ्चित् प्रकटीक्रियते । क्वचित्क्वचिद्भाष्यमतमप्युभयोरेव कौमुद्योः व्यक्तं दृश्यते, तदपि मया वर्णितम् । यथा - उपसर्गात्स्वाङ्गं ध्रुवमपर्शुः[6]  इत्यस्य सूत्रस्य व्याख्यायाम् उभयोः कौमुद्योः अस्य अस्वाङ्गार्थमिति स्वीकृतम् । किन्तु उद्योते प्रोक्तम् - भाष्येऽध्रुवार्थोऽबहुव्रीह्यर्थ इति, अस्वाङ्गार्थ इति तु नोक्तम्, स्वाङ्गग्रहणस्य अत्राप्यनुवृत्तेरिष्टत्त्वात् ’’ एतत्प्रकारेणास्माभिरत्र नानाग्रन्थानुशीलनद्वारा तुलना विधत्ता

4.4 चतुर्थाध्यायस्य निष्कर्षख्यापनम् – अत्र शोधकर्त्रा सम्पूर्णस्य चतुर्थाध्यास्य निष्कर्षः प्रोच्यते । उभयोः कौमुद्योः स्थितानां समासस्वरसन्दर्भे या तुलना कृता निष्कर्षरूपेण एतदेवात्र अभिलक्ष्यते यत् स्वरसन्दर्भे वैमत्याभावे अपि उभयोः कौमुद्योः सूत्राणां व्याख्यानसम्बन्धी भेद एव दृग्गोचरीभवति ।

ञ्चमोऽध्यायः

          अन्तिमेऽस्मिन्नध्यायेऽस्माभिः पूर्ववदेव मार्गानुसारिभिर्यः क्रम आचर्यते, तदत्र वर्ण्यते-

5.1 वैयाकरणकौमुद्यनुसारेण आमन्त्रिताम्रेडितवाक्यस्वराणां सामान्यपरिचयः - शोधकर्त्रा केवलं तिङन्तस्वरस्य विषये चर्चा कृता अस्ति । यतो हि सिद्धान्तकौमुद्यां स्वरप्रक्रियायाम् आमन्त्रिताम्रेडितस्वराः न प्रोक्ताः , प्रक्रियास्थलेषु तत्सम्बद्धानि सूत्राणि प्रोक्तानि सन्ति । किन्तु तत्र आदौ साधारणस्वरप्रकरणे एव आमन्त्रितस्य च[7] इत्येतत्सूत्रमस्ति । तत्र एव आमन्त्रितस्वरसन्दर्भे प्रोक्तं किन्तु विशिष्टचर्चा तथा नास्ति यथा नव्यकौमुद्यामस्ति ।प्रक्रियास्थलेषु च यानि आमन्त्रिताम्रेडितसूत्राणि प्रोक्तानि तत्र स्वरवैशिष्ट्यमात्रचर्चनं तेषां नास्ति । किन्तु सुप्तिङ्चयो वाक्यं भवति । अतः तिङन्तस्वराः सिद्धान्तकौमुद्यां स्वरप्रक्रियायां प्रोक्ताः सन्ति । अतस्तदनुसृत्य अस्माभिरपि चात्र केवलं तिङन्तस्वरा एव प्रोक्ताः । आमन्त्रिताम्रेडितवाक्यस्वरनामकं प्रकरणम् एव सिद्धान्तकौमुद्यां नास्ति । किन्तु नव्यकौमुद्यां तत्तत्सूत्राणि अन्विष्य एतत्प्रकरणं निबद्धमस्ति । सिद्धान्तकौमुद्यां केवलं तिङन्तस्वरसम्बद्धप्रकरणस्यैवोपस्थितत्वात् अत्र शोधकर्त्रा तिङन्तस्वरसम्बन्ध एव सिद्धान्तकौमुद्याः वैशिष्ट्यं दर्शितमस्ति ।

5.2 नव्यकौमुद्यनुसारेण आमन्त्रिताम्रेडितवाक्यस्वराणां सामान्यपरिचयः -

अत्र आमन्त्रिताम्रेडितवाक्यस्वराः विस्तृत्य व्याख्याताः दृश्यन्ते।  किन्तु मया ते अत्यल्पमार्गेण, स्वाध्यायप्राप्ततथ्यानुसारेण नव्यकौमुदीक्रमेण विख्याप्यन्ते । अत्र मया न हि सर्वाणि एव सूत्राणि गृह्यन्ते अपितु केषाञ्चिदेव सूत्राणां व्याख्यानं कृतं, येन नव्यकौमुद्याः शैली अस्माभिर्ज्ञाता स्यात् । तद्गतवैशिष्ट्यं ज्ञायेत ।  नव्यकौमुद्यां तत्तत्सूत्राणां यः विस्तारो, उदाहरणाधिक्यं च तन्मयाऽत्र न प्रस्तूयतेऽपितु सामान्यतयैव तत्परिचीयते

5.3 आमन्त्रिताम्रेडितवाक्यस्वराणां सन्दर्भे उभयोः कौमुद्योः मतभेदानुशीलनम् -

          मयोभयोः कौमुद्योः परिशीलनाधारेणमान्त्रिताम्रेडितवाक्यस्वराणां सन्दर्भे या काचित्तुलनात्मकाऽवाप्ता सा प्रस्तूयते । वस्तुतः आमन्त्रिताम्रेडित-स्वरसन्दर्भे तूभयोरेव कौमुद्योर्वैमत्यं क्वचिदपि न प्रतिभाति, परन्तु व्याख्याने पूर्ववदेव नव्यकौमुद्याम् अतिविस्तृतशैल्याः प्रयोगः कृतः । तत्र सारल्यं तु वर्तते, भाष्यमतख्यापनत्त्वञ्च, किन्तु स्वरसम्बद्धतुलनाचारिभिरस्माभिरत्र रिक्तहस्तैरेव भव्यम् । वाक्यस्वराणां सन्दर्भे चैतद्वक्तुं शक्यते-

          नव्यकौमुद्यां वाक्ये सुबन्ततिङन्तप्लुस्वराणां च व्याख्यानं त्कृतं, तन्नूनं स्वरजिज्ञासूभ्यो महोपयोगि सद् ग्रन्थस्य महत्तां वर्धयति । एवमेव कौमुद्यां नैतत्प्रकारेण तन्निर्देशः प्राप्यते । सुबन्तस्वरसम्बद्धसूत्राणि कौमुद्यां प्रकरणान्तेरषूपलभ्यन्ते, यथा- युष्मदस्मदोः ष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, मयावेकवचनस्य, त्वामौ द्वितीयायाः -

इत्यादीनि सूत्राणि हलन्तपुँल्लिङगस्थानि सन्ति प्रक्रियावसरे कौमुद्यां न च स्वरप्रकरणावसरे । नव्यकौमुद्यां स्वरप्रक्रियायां निवेश्य तत्स्वरोऽपि निदर्शित इत्येतन्मात्रम् अत्र विशेषत्वम् अभिलक्ष्यते । एवमेव प्लुस्वरसम्बद्धानि यानि नव्यकौमुदीस्थसूत्राणि तानि कौमुद्यामच्सन्धौ दर्शितानि, प्रक्रियावसरे । ततस्तुलनाचर्चैव नास्ति । केवलं तिङन्तस्वरा उभयोः कौमुद्योस्सामान्यं व्याख्याताः । तिङन्तस्वरसन्दर्भे यद्यप्युभयोः कौमुद्योस्तात्त्विको भेदो नास्ति, तथाप्यस्माभिर्भाष्यादिग्रन्थालोनैरुभयकौमुदीवीक्षणैश्च या काचित्तुलनात्मकताऽवाप्ता साऽत्र प्रस्तूयते

 

5.4. वैयाकरणकौमुद्यनुसारेण एकश्रुतिस्वरस्य सामान्यपरिचयः -

          अत्रास्माभिरेकश्रुतिस्वरसन्दर्भे चर्चा विधीयते । यद्यपि वैयाकरणसिद्धान्तकौमुद्याम् एकश्रुतिस्वरप्रकरणं पृथक्कृत्य नास्ति, तथापि साधारणस्वरनामकाध्याये, आदावेव एकश्रुतिसम्बद्धसूत्राणि प्राप्यन्ते यथा - एकश्रुतिः दूरात्सम्बुद्धौ, यज्ञकर्मण्यजपन्यूङ्खसामसु इत्यादीनि । अत्रास्माभिः वैयाकरणसिद्धान्तकौमुद्याः परिशीलनेन यत्किञ्चिदपि एकश्रुतिवियकं तथ्यमवापि, तत्सामान्यतया समुद्घाट्यते

5.5. नव्यसिद्धान्तकौमुद्यनुसारेण एकश्रुतिस्वरस्य सामान्यपरिचयः -

          नव्यसिद्धान्तकौमुद्याम् अपि एकश्रुतिस्वरस्य विषये सम्यक्तया व्याख्यानं प्राप्यते । तत्र नैकेषां ग्रन्थानां सहायतया एकश्रुतिस्वरगतानां तथ्यानां रहस्योद्घाटनं कृतमस्ति । अतोत्र तस्यानुसरणं कृत्वा मया तत्सम्बन्धे शोद्धृदृष्ट्या चर्चा क्रियते ।

5.6. एकश्रुतिस्वरसन्दर्भे उभयोः कौमुद्योः मतभेदानुशीलनम् -

अत्र एकश्रुतिस्वरसन्दर्भे वयम् उभयोः कौमुद्योः अध्ययनानन्तरं एतदेव वक्तुं शक्नुमो यत् स्वरसम्बन्धिवैमत्यं सूत्रमाध्यमेन तत्र न लब्धम् । नव्यकौमुदी च एकश्रुतिस्वराणां व्यवस्थितरूपेण उपस्थापनं कृतवती एतत्तद्वैशिष्ट्यम् अस्ति । तत्र नैकासां टीकानां सहायतया सूत्रगतं तात्पर्यं स्पष्टीकृतं वर्तते ।

5.7. पञ्चमाध्यायस्य निष्कर्षख्यापनम्-

अत्र अस्माभिः सम्पूर्णस्य पञ्चमाध्यायस्य निष्कर्षः ख्याप्यते । आदौ आमन्त्रिताम्रेडितवाक्यस्वराणां सन्दर्भे ततश्च एकश्रुतिस्वराणां सन्दर्भे निष्कर्षविख्यापनङ्क्रियते

5.7.1. आमन्त्रिताम्रेडितवाक्यस्वरसन्दर्भे निष्कर्षख्यापनम्-

अत्रास्माभिरेतदेव वक्तुं क्यते यदुभयोरेव कौमुद्योः यद्यपि तद्वियकाणि सूत्राण्युपनिबद्धानि, किन्तु नव्यकौमुद्याम् अन्वेणपरकरीत्याऽऽमन्त्रिताम्रेडितवाक्यस्वरसम्बद्धसूत्राणां पृथक्  प्रकरणविन्यासेन तद्गतव्याख्यानेन च सुलभीकृतस्सरसीकृतस्सुकरीकृतश्च स्वरमार्गस्तत्पान्थेभ्यः । कौमुद्यामपि च तत्तत्स्वरसूत्राणां सम्यङ्निर्देशः कृतः अस्ति । उभयोरेव स्वरसम्बन्धिपृथक्त्वं कुत्रापि न दृक्पथमायाति

5.7.2. एकश्रुतिस्वरसन्दर्भे निष्कर्षख्यापनम् -

तुलनाधारेणैकश्रुतिस्वरसम्बन्धेऽत्रास्माभिरेतदेव निश्चीयते, यत् उभयोरेव कौमुद्योः यद्यप्येकश्रुतिस्वरसन्दर्भे कुत्रापि वैमत्यं नास्ति, तथापि नव्यकौमुद्यां यद्व्यवस्थितरपेणैकश्रुतिस्वरसम्बन्धिसूत्रस्थानं, यया च सरलरीत्या तत्रत्यं व्याख्यानं कृतं तन्नूनमेवाध्येतृभ्यस्सरलं झटित्यवबोधकरं च वर्वर्त्ये

उपसंहारः

इतोऽनन्तरम् अस्माभित्रोपसंहारः क्रियते- सर्वेषामध्यायानां उपसंहर्तृत्त्वेनात्रतदेव वक्तुं क्यते यदुभयोः कौमुद्योः यद्यपि धातुप्रातिपदिकफिट्सूत्रसमासतिङन्तादिस्वराणां सम्यग्विवेको लभ्यते उभयोश्चापि कौमुद्योः यद्यपि थ्यख्यापनता, भाष्याद्यनुशीलनपरकत्त्वञ्च वर्वर्त्ति , तथापि वैयाकरणसिद्धान्तकौमुदीस्था स्वरप्रक्रिया, नानाटीकालोकनानन्तरमेव सूत्रगतानि रहस्यानि अवबोधयति ! वैयाकरणकौमुदीस्थस्वरप्रक्रियायामत्यल्पशब्दैस्स्वरगततथ्यं  यद्यपि निगदितं, तथापि तस्य गूढतथ्यं ज्ञातुं सुबोधिनीशेखरादीनां ग्रन्थानामवलोकनस्य आश्यकता, भाष्याद्यलोनावश्यकता च शिष्यत एव! किन्तु नव्यकौमुद्यां मूल एव स्वरसूत्रसम्बद्धं यत्सामान्यव्याख्यानम्, यच्च नानाटीकानां रहस्यं, भाष्यभावाश्चापि निगुम्फिताः तेन वास्तविकरूपेण सर्वं स्वरभ्रमविनाशो भवति । वैयाकरणकौमुद्यपेक्षया नव्यकौमुदी ह्यद्यत्त्वे स्वरप्रक्रियाविये झटित्यवबोधदाऽल्पमतीभ्योऽप्यध्येतृभ्योऽस्तीति तदध्ययनद्वारेण तुलनया च स्पष्टयितुं क्यते । नव्यकौमुद्यां कठिनशब्दानां हिन्द्यामर्था अपि प्रोक्ताः, येन तत्स्था स्वरप्रक्रिया हिन्दीभाषिजनेभ्यः अपि नितान्तं सरला जाता । एवमेव आदेशागमसुबन्तानां स्वरप्रकरणनिवेशेन आमन्त्रिताम्रेडितस्वरनिदर्शनेन, फिट्सूत्राणां बाध्यबाधकभावपुरस्सरव्याख्यानेन, समासस्वरावसरे, प्रत्येकं समासस्य पृथक्पृथक्स्वरनिदर्शनेन नव्यकौमुद्याः वैशिष्ट्यं स्पष्टमेव अस्ति । साधारणरपेण स्वरप्रक्रिया यद्यपि वैयाकरणसिद्धान्तकौमुदीद्वारेणापि जनैर्लब्धुं क्यत एव । तथापि नव्यकौमुद्यामस्त्येव किञ्चित्सारल्यं, तथ्यविख्यापकत्त्वं, युगानुरुपकत्त्वञ्च । एवमस्माभिर्बोद्धुं क्यते स्वरप्रक्रियायाः व्यावस्थितं समृद्धं महाभाष्यादिभावविद्योतकं च रपं नव्यकौमुद्यामेव प्राप्यते । स्वरसम्बन्धिभेदस्तूभयोरेव कौमुद्योः न दृक्पथमारोहति । यतो हि द्वयोरेव कौमुद्योः अष्टाध्यायीस्थसूत्राणामेव व्याख्या कृता, तत्कथं पृथग् भवितुं शक्यते । किन्तु क्वचित् क्वचित् व्याख्यानवैशिष्ट्येन, नानोदाहरणसमुल्लसिता च नव्यकौमुदी स्वरसम्बन्धिप्राकर्ष्यं यात्येव

 



[1] पा.सू.6-1-189

[2] पा.सू. 6-1-190

[3] पा.सू.6-1-167

[4] पा.सू.6-1-180

[5] पा.सू.6-1-223

[6] पा.सू.6-2-177

[7] पा.सू.8-1-19

No comments:

Post a Comment

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्र...