मृत्युञ्जयमन्त्रस्य जप: ••••••••• (हिन्दी भावार्थ सहित) •••••••• १) रात्रौ यदा सर्वे शेरते, तदैकाकी होत्थाय जपेद् - ओं त्र्यम्बकं यजामह इति! [अनुपवीतो न जपेद्, वैदिकत्वाद्रात्रावपि न, उपर्युक्तवचनं भावरहस्यदर्शनार्थमेव केवलम्।] २) यदा मृत्युरिव कश्चित्कष्ट आपद्वोद्भवेत्, तदोत्थाय जपेद् - ओं त्र्यम्बकं यजामह इति! ३) यदा सर्वैस्त्यक्तो दीनो हीन इवानुभवेत्तदा सावधानो जपेद्- ओं त्र्यम्बकं यजामह इति! ४) यदा हृदयं दु:खितं संसारिभिर्,न कश्चिन्मार्गश्च, जपेद्- ओं त्र्यम्बकं यजामह इति! ५) दमनमिच्छेद्रिपूणां चेदेकान्ते गत्वा, जपेद्- ओं त्र्यम्बकं यजामह इति! ६) आत्महत्याविचारास्त्वामावृण्वन्ति चेद्, आत्मानं संयम्य जपेद्- ओं त्र्यम्बकं यजामह इति! ७) ऋणित्वादात्मजिघांसुरिव चिकर्षतीव व्यवहर्तुं, निरुध्येतस्स्वं, जपेद्- ओं त्र्यम्बकं यजामह इति! ८) एतास्तान्त्रिकक्रिया रिपुकृता: निष्फलीकर्तुं, जपेद्- ओं त्र्यम्बकं यजामह इति! ९) अनुक्त्वैव कञ्चिदपि, मौनीभूय सर्वविरक्त इव, मङ्गलेप्सुर्जीवनस्य, जपेद्- ओं त्र्यम्बकं यजामह इति! १०) साफल्यमाप्तुं, हर्तुं दौर्भाग्यदिनानि, गुप्तीभूय जपेद्- ओं त्र्यम्बकं...