|| ||
************
काश्यां यस्य निशम्य शब्दपरकां नानार्थचिन्तावलीं
छात्राश्चैव यतो ह्यधीत्य मुदितास्सिद्धान्तमुक्तावलीं
विद्वत्सज्जनलोकनैर्भवति वा यस्येह दीपावली
तस्मै च प्रददामि देवनगरस्थायाद्य भावाञ्जलिम्||१||
यो वै शब्द इति प्रकाशितपथे छात्रान्नवान् वर्धयन्
ब्रह्मत्वं प्रतिपादयन् पदमुचां वाचाञ्च तत्त्वं वदन्
सोऽसौ नागपदैकचिन्तनरत: पातञ्जलं धारयन्
शैवं लोकमगात्सहस्रजनतां दिव्यार्थमुत्प्रेरयन्||२||
काश्यां देवनदीतटे घटपटाद्यर्थं समुद्बोधयन्
न्यायाश्लिष्टपदप्रचारणविधिं विद्यार्थिनश्शिक्षयन्
वेदास्यार्थमुपास्यतामिति जनानाजीवनञ्जीवयन्
शब्दब्रह्म गतश्श्रुतं गुरुवरश्श्रीरामयत्नस्सुधी:||३||
भाष्ये कैय्यटवाक्समुद्रसलिलं योऽगस्त्यवत् पीतवान्
शब्दानां महिमानमेव सततं चाजीवनं गीतवान्
मञ्जूषां शिरसा प्रधार्य सततं नागेशभट्टस्य यो
वैलक्षण्यमथाह शब्दजगतां जातस्स शब्दोऽधुना||४||
देहेऽप्यस्ति विभिन्नवाक्स्वरलयाबद्धा तरङ्गान्विता
नानाभावविलासबोधकरणी शुक्लाम्बरा कुत्रचित्
आकाशे तडिदुद्भवेत्क्षणभवा तद्वत्प्रकाशान्विता
हेत्थं योऽर्थमबोधयत् सुवचसां वाचि प्रलीनोऽधुना||५||
काशीयं मम सुप्रिया कथमहं त्यक्त्वा प्रयामि क्वचित्
त्वां नाना न हि रोचते सुरपुरं मह्यं न सौख्यं धनं
इत्याद्यैश्च पुराणशास्त्रगदितै: काशीरसाकाशितै-
रर्थैर्जीवनमुन्नयन् शिवमगाच्छ्रीरामयत्नो गुरु:||६||
काशीवासविभासजीवनवशादन्धं तमो वारयन्
पाणिन्यर्थसमेतसूत्रसरणीं छात्रेषु विस्तारयन्
अज्ञानादिमनोमलं च जडतामुत्पाटयन् कौशलैर्
योऽजीवज्जनताप्रियोऽप्रियहरश्श्रीरामयत्नस्स वै||७||
लब्ध्वा राष्ट्रपतिप्रभाविलसितं पद्मादिसम्भूषणं
हृत्वा द्वेषभवं विधर्मिवचसां यच्छाब्दिकं दूषणं
शब्दाम्रस्य सदाऽकरोदहरहश्चित्तेन यश्चूषणं
सोऽसौ शब्दभृताम्प्रमाणितगुरुश्श्रीरामयत्नो गत:||८||
दृष्ट्वा छात्रगणान्सुतानिव सदा स्नेहेन यो हृष्यति
पात्रं शास्त्रगुणस्य दिव्यनयनैर्यो दूरत: पश्यति
सारल्यादिसुरप्रवृत्तिघटकैर्दौ:ख्यं च यो नश्यति
तस्यालोक्य दिवप्रयाणमधुना भोज्यं न मे रोचते||९||
हे विद्वन् बहुधा शतैश्च शतधा त्वद्वेतृता संश्रुता
दौर्भाग्यं न कदापि भौतिकतया साक्षान्मयालोकित:
सम्बन्धो भवति प्रवेतृषु मुदा वाचां, न वै दैहिकं
तस्मात्त्वां परिदृष्टवान् शतपथैरित्येव सञ्चिन्तये||१०||
हे विद्वंस्तव शब्दकीर्तिमहिमा दूराज्जनैर्गीयते
श्रीमंस्ते पदपाठनप्रवणता पुण्यान्विता लक्ष्यते
बोद्ध्रीशाशुविबोधदा च शुभता गुण्यान्विता लोक्यते
याते त्वय्यथ शब्दराजि निशि हा निद्रा न मे नेत्रयो:||११||
किन्तु त्वामभिगायति त्रिभुवनं त्वां लोकते लोकराट्
किन्तु त्वामभिवेत्ति शब्दजगति प्रत्येकमुत्कण्ठया
किन्तु त्वाम्परिहृष्यमाणहृदयैर्गायन्ति मेघस्वरास्
त्वं यातोऽपि न यात इत्यहमहो तुष्यामि चित्तेऽधुना||१२||
कीदृग्भावगिरां प्रयामि मतिमन् पारं न विज्ञायते
यातानां च महात्मनां स्मृतिरतो मत्तो न निर्गच्छति
तस्माद्भावनिवेदनाय शतधा सोऽयं प्रकल्पारतस्
त्वत्कीर्तौ हि हिमांशुगौडपदभाक्सक्त: प्रयाते त्वयि||१३||
देहं नो गणयन्ति शाब्दिकवरास्सद्ब्रह्मजिज्ञासवस्
तस्मान्नष्ट इतीह भावपरता लेशा न तेषु क्वचित्
आत्मा सत्यमिति प्रभाविलसिताश्शैवेन सूद्भासितास्
तद्वच्च प्रचरन्ति रामयतना: काशीविभाकाशिता:||१४||
शास्त्रायार्पयतु स्वजीवनमिति प्रारीरचज्जीवनं
शास्त्रायैव समं धनं च तृणवत् त्यक्त्वा सुखैस्संवसेत्
शास्त्राधिष्ठितनिष्ठया शिवगुरो: प्रीतिं प्रविन्देन्मुदा
यो वक्ति स्म पुरारिशूलनगरीवासी स काशीवर:||१५||
•••••••••
हिमांशुर्गौड:
०९:२७ रात्रौ
२०/०९/२०२२
No comments:
Post a Comment