आतिथ्यसद्भावसुधाभिसक्तो
माहात्म्यलोकेषु सदैव सक्तो
सद्धर्मकार्ये हृदयेन रक्तो
हि-अशोकजीसिङ्घल भारतात्मा॥१॥
अङ्गं च बङ्गं ह्यथवा कलिङ्गं
मद्रश्च कार्णाटकमल्लयालम्
हिमाढ्यदेशो जलधिप्रदेशो
एकीकृतो येन नुमो ह्यशोकम्॥२॥
गङ्गातटं वा यमुनातटं वा
सरस्वतीतीर उतास्तु रम्य:
प्रयागराजेऽस्तु तथा त्रिवेणी
एकत्वनिष्ठोऽस्त्यथ भारतात्मा॥३॥
देशे विदेशे निजधर्मवक्ता
"सङ्घ"स्य शक्ते: परिवर्धको य:
हिन्दूद्धृतौ जीवनदानकर्ता
अशोकजीसिङ्घलभारतात्मा॥४॥
अयोध्यया यत्प्रथितं यशश्च
श्रीरामसन्मन्दिरनिर्मितिश्च
हिन्दुत्ववादस्य यशस्तनोति
अशोकजीसिङ्घलभारतात्मा॥५॥
प्राणप्रिया वै खलु मानवाश्च
धर्मप्रियास्सन्ति महात्मलोका:
प्राणप्रमोहं च विहाय रामा-
लयस्य कार्ये रतभारतात्मा॥६॥
जीवन्ति केचिद्धि धनार्जनाय
परे तु केचिद्यशसोऽर्जनाय
धर्मार्जनायापि परे प्रलग्ना:
रामार्जनायास्ति च भारतात्मा॥७॥
यत्संस्कृतेर्मूलमहो गरीयं
यज्जीवनं सौख्यमये युनक्ति
तद्भारतस्यान्तर्हितधर्मरूपं
प्रसारयेत् तत् खलु भारतात्मा॥८॥
वेदेषु सर्वं निहितं सदैव
त्रिकालसत्यं च सदैव वेदा:
तद्रक्षणाय प्रथितप्रयत्नो
अशोकजीसिङ्घलभारतात्मा॥९॥
वेदाच्च शास्त्राणि समुद्भवन्ति
विज्ञानमूला श्रुतिरेव मुख्या
नारायणान्नि:श्वसितस्य रक्षा
तद्ब्राह्मणानां च सदैव धर्म:॥१०॥
तस्यैव कार्यस्य सुनिश्चयार्थं
विप्रप्रसादप्रतिवर्धनार्थं
सम्माननार्थं ननु वैदिकानां
समुद्भवेद् योऽखिलभारतात्मा॥११॥
सङ्कल्पवीरो भुवि कर्मनिष्ठो
जातोऽद्भुतो वेदनिधिर्वरिष्ठो
बुद्ध्या तथा योजनया गरिष्ठश्
शिष्टो ह्यशोकोऽखिलभारतात्मा॥१२॥
मोहान्धकारे निपतन्ति जीवा:
पापेषु कर्मस्वपि खिन्नचित्ता:
कथं विरामं लभतां च शान्तिं
रामे रमध्वं भवहं भजध्वम्॥१३॥
सन्मार्गमेवं परिसंश्रयध्वं
सर्वं हनूमत्प्रभवे कुरुध्वं
एधध्वमर्थे नहि रे ह्यनर्थे
स्पर्धध्वमध्वन्यथ रामनाम्न:॥१४॥
................प्रवर्तमानम्
No comments:
Post a Comment