*********
प्रतापतापनिष्प्रतापवैरिणो रणे समे,
विहीनजीवना अवारिमीनतां प्रपेदिरे
भयङ्करैश्च खड्गसम्प्रहारणैस्सहस्रशो
द्रुतं श्रुता इवाशुदेहहानिमेव भेजिरे||१||
क्व जीवताद्विलोकितो हि येन रुष्टवीरराट्
दहेद्रिपुं न कं प्रतापनेत्ररोषहव्यवाट्
हरेदसून् क्षणे क्षणे हि हुङ्कृतै: रिपोश्च यो
जयेत्पराक्रमस्स कोऽपि वीरशब्दमूर्तिमान्||२||
उपत्यकाभिरावृते मनोहरे शुभस्थले
शिवैकलिङ्गमन्दिरे स रुद्रसेकतत्पर:
नमश्शिवाय चेति यो जपन्नजस्रमद्भुतं
जघान गोघ्नजातिकान् जयेज्जयस्स मूर्तिमान्||३||
मरुत्पदप्रवाहवाहनश्च यश्च चेतको
हयाधिराट् प्रतापभक्तदेशभक्तिसक्तिमान्
चतुष्पदस्स कोऽप्यशेषकीर्तिवाड्रणेऽग्रग:
प्रतापवाहनो जयेत्स वीरवाहनो जयेत्||४||
अशेषभारतप्रजेत्रखर्वगर्वनाशनो
भुजङ्गमाक्षरीलिपिप्रपाठिपाठनाशन:
स्वदेशमानरक्षणकृतप्रणस्तृणाशनो
जयेज्जयप्रियस्मृतिस्सुरालयाप्तशासन:||५||
*****
हिमांशुर्गौड:
१०:३७ रात्रौ,
२३/०४/२०२२
No comments:
Post a Comment