सहनं वै तप: प्रोक्तं, मौनं सर्वत्र साधनम्।
जायते स सुखी नूनं पालयेद्यस्तथा व्रतम्
सहनेन तपस्याग्निर्वर्धते ब्राह्मणस्य तु।
क्रोधेन चैव शापेन सर्वं नश्यति तत्क्षणात्।
क्षमया भूर्महत्येषा क्षमयेशो महान् हरि:!
क्षमया जीवनं पुंसां क्षमया लोकसंस्थिति:!
क्रोधेन क्षणभूतेन नश्यन्ति श्रीलसम्पद:!
क्षमयैव महान् भूत्वा मोदते वीर्यवान् भुवि।
काव्यान्यद्य स्वतन्त्राणि बाल:! भान्तीव मे नहि।
कवयस्स्वार्थसंसिद्ध्यै लिखन्तीह यथा तथा।
शतं यद्घटिकामात्रे लिखन्ति कवयश्च ते,
नाधुना लोकिता: लोके, ये जातास्ते दिवङ्गता:
केचित्स्वकार्यकुशला केचित्परहितावहा:
लोकेस्मिन्नैककार्येषु चेन्द्रियार्थेषु तत्परा:
केचिद्धनाय जीवन्ति केचिद्भोगाय केवलं,
जीवेद्यश्चात्मलब्ध्यै तज्जीवनं धन्यतां व्रजेत्
मधुवाक्यप्रदानेन सर्वे तृप्यन्ति मानवा:
तस्मान्मधुरता देया सर्वं मधुमयं भवेत्
Comments
Post a Comment