डॉ.महेशनारायणशास्त्रिणां - वीता दिवसा मुहुरहो!जातु न क्वचिदायान्ति - इत्येकां काव्यपङ्क्तिमुत्थाप्य मया स्वविचारैस्सद्यस्स्फुरितैषा काव्यबन्धना कृता। तत्पिबन्तु सहृदया रसमस्याः। अनुभवन्तु चात्र जीवनदृश्यम्।
वीता दिवसा मुहुरहो!जातु न क्वचिदायान्ति।
अन्तर्भित्तौ सदा सौख्यदा अद्येवैते विभान्ति
काचिन्नव्यतरङ्गमनोजा यदा वयं नवयूनि
पीतानीव यदा चास्माभिर्वामाधरजमधूनि
यदा वयं चैकान्ते माधवमासे सुमरमणीये
लताविटपकुञ्जे बहुकालं मुदा हृदा कमनीये
यदा वयं च तडागहरितनीरे लोष्ठांश्च क्षिपन्तो
त्वदागमनकालं पश्यन्त: कालं यापितवन्त:
यदा वयं जगतो बहुचिन्ताभ्य: परिमुक्ता आस्म:
यदा वयं वीरैरिव दर्शिततेजस्काश्चैवास्म:
यदा वयं सुहृदां निश्छलप्रेमपयांसि पिबन्तो
यदाश्रमेषु दृष्टा: भ्रामं भ्रामं पूज्यास्सन्त:
यदा कामिनीवीक्षणबाणैर्विद्धं नो मन आसीत्
यदा तया मेलनकाङ्क्षायां व्यपगतरात्रिश्चासीत्
यदा न चासीच्चित्ते काचिद्धनपदलिप्सास्माकं
यदा जगन्नवताम्परियातं ह्यनुभूयते स्माऽस्माभि:
यदा वयं चञ्चच्चन्द्रं तारागणगणनासक्ता:
पश्यन्तश्छदिसीह मुदा राज्ञश्च कथां शृण्वन्त:
शेमहे स्म ग्रामारामे षड्रतुकृतरसं श्रयन्तो
कुर्महे आयान्तु दिनानि पुनस्तानि नृत्यन्त:
****
हिमांशुर्गौड:
०९:१७ रात्रौ
०९/०४/२०२३
No comments:
Post a Comment