|| बिहारघट्टं नहि सन्त्यजामि ||
********
यत्र स्मृतिर्वेदविदां गुरूणांश्रीविष्ण्वाश्रमाणां च तपांसि यत्र
सहस्रविद्वद्बटुकैर्वृतं यद्
बिहारघट्टं नहि सन्त्यजामि||१||
यजुष्प्रियाभ्यासरतोदराग्निर्
जाज्वल्यते पाठगतश्रमाच्च
ततस्स खादेच्छतशष्कुलीर्वै
यत्र, त्यजामो न बिहारघट्टम्||२||
यत्रैकतो नारवरी विभाति
श्रीकार्णवासी नगरी प्रतीच्यां
शब्दप्रियाणां श्रुतिसंहितानां
बिहारघट्टं नहि सन्त्यजामि||३||
श्रीश्यामबाबागुरुदर्शनानि
श्रीमत्प्रबोधाश्रमदेशनानि
गाङ्गानि वारीण्यपि संल्लभेरन्
यत्र त्यजामो न बिहारघट्टम्||४||
यत: प्रयामो ह्यपि रामघट्टं
यतो नमामोऽप्यथ वृद्धिकेशीं
भूतेश्वरं चैव यतो व्रजामो
बिहारघट्टं नहि सन्त्यजाम:||५||
यत्रास्ति मेऽवस्थिविनीतवर्यो
गुरुर्वशिष्ठोस्ति दिवाकरश्च
भातीह भङ्गस्य वनस्पतिश्री:
शिवार्पणाय स्वमुखार्पणाय||६||
घण्टास्वनो यत्र च भोजनाय
स्वरोऽत्र गुञ्जेद्द्विज! हर्षणाय
पठेम गङ्गालहरीं प्रभाते
श्रयेम तस्माच्च बिहारघट्टम्||७||
******
हिमांशुर्गौड:
०८:२५ रात्रौ
२८/०२/२०२३
No comments:
Post a Comment