Skip to main content

शान्तविलास, पण्डितराज जगन्नाथ विरचित

 विशालविषयाटवीवलयलग्नदावानल-

प्रसृत्वरशिखावलीविकलितं मदीयं मनः।

अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे

मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्‌॥१॥


अये जलधिनन्दिनीनयननीरजालम्बन

ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम्‌।

प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै-

र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः॥२॥


स्मृतापि तरुणातपं करुणया हरन्ती नृणा-

मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्‌।

कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी

मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥३॥


कलिन्दगिरिनन्दिनीतटवनान्तरं भावयन्‌

सदा पथि गतागतक्लमभरं हान्‌ प्राणिनाम्‌।

लतावलिशतावृतो मधुरया रुचा संभृतो

ममाशु हरतु श्रमानतितरां तमालद्रुमः॥४॥


वाचा निर्मलया सुधामधुरया यां नात्ग शिक्षामदा-

स्तां स्वप्नेऽपिन संस्मराम्यहमहंभावावृतो निस्त्रपः।

इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत-

स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः॥५॥


पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः

पारावारपरम्पराहत यदि क्षेमं निजं वाञ्छसि

श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः॥६॥


मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः

स्वर्यातेन सुधाप्यधायिकतिधा रम्भाधरः खण्डितः।

सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता

कृष्णेत्यक्षरयोरधं मधुरिमोद्गारः क्वचिल्लक्षितः॥७॥


वज्रं पापमहीभृतां भगवदोद्रेकस्य सिद्धौषधं

मिथ्याज्ञाननिशाविशालतमस्तिग्मांशुबिम्बोदयः।

क्रूरक्लेशमहीरुहामुरुभरज्वालाजटालः शिखी

द्वारं निर्वुतिद्मनौ विजयते कृष्णेति वर्णद्वयम्‌॥८॥


रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्‌

वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया।

सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितै-

रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति॥९॥


अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना

कण्ठे लज्जा हरति नितरां याऽऽन्तरध्वान्तजालम्‌।

तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं

कृष्णेत्याख्यां कथय रसने यद्यपि त्वं रसज्ञा॥१०॥


सन्त्येवास्मिञ्जगति बहवः पक्षिणो रम्यरुपा-

स्तेषां मध्ये मम तु महती वासना चातकेषु।

यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि-

श्चित्तरुढं भवति किमपि ब्रह्म कृष्नाभिधानम्‌॥११॥


विष्वद्रीच्या भुवनमभितो भासते यस्य भासा

सर्वासामप्यहमिति विदां प्रत्ययालम्बनं यः।

तं पृच्छन्ति स्वहृदयतलावेदिनो विष्णुमन्या-

नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः॥१२॥


सेवाया< यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां

चिन्तायामसि सस्पृहं यदिद तदा चक्रायुधश्चिन्त्यताम्‌।

आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदाऽऽलप्यतां

स्वापम वाञ्छसि चेन्निरर्गलसुखे चेतः सुखं सुप्यताम्‌ ॥१३॥


भवग्रीष्मप्रौढातपनिवहसन्तप्तवपुषो

बलादुन्मूल्य द्राङ्निगडमविवेकव्यतिकरम्‌।

विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे

विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः॥१४॥

नन्तःशान्त्यै मुनिशतमतानल्पचिन्तां भजन्ते।

तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः

सर्वं परामादिकमिह भवभ्रान्तिभाजां नराणाम्‌॥१५॥


प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि।

आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम्‌॥१६॥


तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम्‌।

चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः॥१७॥


श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-

मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः।

निमग्नानां यास्य द्रविणरसपर्याकुलदृशां

सपर्यासौकर्यं हरिचरणयोरस्तमयते॥१८॥


किं निशङ्कं शेषे शेषे वयसः समागतो मृत्युः।

अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी॥१९॥


सन्तापयामि किमहं धावं धावं धरातले हृदयम्‌।

अस्ति मम श्रिअसि सततण नन्ददुमारः प्रभुः परमः॥२०॥


रे रे मनो मम मनोभवशातनस्य

पादाम्बुजद्वयमनारतमानमन्तम्‌।

किं मां निपातयसि सं सृतिगर्तमध्ये

नैतावता तव गमिष्यति पुत्रशोकः॥२१॥


मरकतमणिमेदिनीधरो वा

तरुणतरस्तरुरेष वा तमालः।

रघुपतिमबलोक्य तत्र दूरा-

द्दृषिनिकरैरिति संशयः प्रपेदे॥२२॥


तरणितनया किं स्यादेषा न तोयमयी हि सा

मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः।

इति रघुपतेः कायच्छायाविलोकनकौतुकै-

र्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः॥२३॥


चपला जलदाच्च्युता लता वा

तरुमुख्यादिति संशये निमग्नः।

गुरुनिःश्वसितैः कपिर्मनीषी

निरणैषीदतह तां वियोगिनीति॥२४॥


भूतिर्नीचगृहेषु विप्रसदने दारिद्रयकोलाहलो

नाशो हन्त सतामसत्पथजुषामायुः समानां शतम्‌।

दुर्नीतिं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि सन्‌

किं कुर्वे जगदीश यतऽऽ पुनरहं दीनो भवानीश्वरः॥२५॥


आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्‌ पयोधे-

र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु।

मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां

वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः॥२६॥


गिरां देवी वीणागुणरणनहीनादरकरा

यदीयानां वाचाममृतमयमाचामति रसम्‌।

वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपते-

रधुन्वन्‌ मूर्धानं नृपशुरथवाऽयं पशुपतिः॥२७॥


मद्वाणि मा कुरु विषादमनादरेण

मात्सर्यमग्नमनसां सहाअ खलानाम्‌।

काव्यारविन्दमकरन्दमधुव्रताना-

मास्येषु धास्यसितमां कति नो विलासान्‌॥२८॥


मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा

कदाचित्‌ केषांचिन्न खलु विदधीरन्नपि मुदम्‌।

ध्रुवं ते जीवन्तोऽप्यहह मृतकामन्दमतयो

न्येषामनन्दं जनयति जगन्नाथभणितिः॥२९॥

काव्यं तर्हि सखे सुखेन कथय त्वं संमुखे मादृशां

नो चेद्दुष्कृतमात्मना कृतमिव स्वान्ताद्बहिर्मा कृथाः॥३०॥


धुर्यैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकसुधानाम्‌।

वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः॥३१॥


शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि संभाविता

दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः।

संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते

सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम्‌॥३२॥


दुर्वृत्ता जारजन्मानो हरिष्यन्तीतिशङ्कया।

मदीयपद्यरत्नानां मंजूषैषा कृता मया॥३३॥


जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलयन्‌

जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन्‌।

श्रितो वृन्दारण्यं नतनिखिलवृन्दारकवृतो

मम स्वान्तध्वान्तं तिरयतु नवीनो जलधरः॥३४॥


ग्रीष्मचण्डकरमण्डलभीष्मज्वालासंसरणतापितमूर्तेः।

प्रावृष्येण इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः॥३५॥


अपारे संसारे विषमविष्यारण्यसरणौ

मम भ्रामं भ्रामं विगलितविरमं जडमतेः।

परिश्रान्तस्यायं तरणितनयातीरनिलयः

समन्तात्‌ संतापं हरिनवतमालस्तिरयतु॥३६॥


आलिङ्गितो जलधिकन्यकया सलीलं

लग्नः प्रियङ्गुलतयेव तरुस्तमालः।

देहावसानसमये हृदये मदीये

देवश्चकास्तु भगवानरविन्दनाभः॥३७॥


नयनानन्दसन्दोहतुन्दिलीकरणक्षमा।

तिरयत्वाशु संतापं कापि कादम्बिनी मम॥३८॥


गणिकाजामिलमुख्यानाव्ता भवता बताहमपि।

सीदन्‌ भवमरुगर्ते करुणामूर्ते न सर्वतोपेक्ष्यः॥३९॥

मलयानिलकालकूटयोः रमणीकुन्तलभोगिभोगयोः।

श्वपचात्मभुवोर्निरन्तरा मम भूयात्‌ परमात्मनि स्थितिः॥४०॥


निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम्‌।

अथ तस्य कृते कियानयं हन्त जनैः परिश्रमः॥४१॥


प्रतिपलमखिलाङ्ल्लोकान्‌ मृत्युमुखं प्रविशतो निरीक्ष्यापि।

हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः॥४२॥


सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः।

अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात्‌॥४३॥


अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु।

पातयतु वासिधारामहमणुमात्रं न किञ्चिदपि भाषे॥४४॥


॥इति श्रीमज्जगन्नाथपण्डितविरचितो शान्तविलासः॥

Comments

Popular posts from this blog

संस्कृत सूक्ति,अर्थ सहित, हिमांशु गौड़

यत्रापि कुत्रापि गता भवेयु: हंसा महीमण्डलमण्डनाय हानिस्तु तेषां हि सरोवराणां येषां मरालैस्सह विप्रयोग:।। हंस, जहां कहीं भी धरती की शोभा बढ़ाने गए हों, नुकसान तो उन सरोवरों का ही है, जिनका ऐसे सुंदर राजहंसों से वियोग है।। अर्थात् अच्छे लोग कहीं भी चले जाएं, वहीं जाकर शोभा बढ़ाते हैं, लेकिन हानि तो उनकी होती है , जिन लोगों को छोड़कर वह जाते हैं ।  *छायाम् अन्यस्य कुर्वन्ति* *तिष्ठन्ति स्वयमातपे।* *फलान्यपि परार्थाय* *वृक्षाः सत्पुरुषा इव।।* अर्थात- पेड को देखिये दूसरों के लिये छाँव देकर खुद गरमी में तप रहे हैं। फल भी सारे संसार को दे देते हैं। इन वृक्षों के समान ही सज्जन पुरुष के चरित्र होते हैं।  *ज्यैष्ठत्वं जन्मना नैव* *गुणै: ज्यैष्ठत्वमुच्यते।* *गुणात् गुरुत्वमायाति* *दुग्धं दधि घृतं क्रमात्।।* अर्थात- व्यक्ति जन्म से बडा व महान नहीं होता है। बडप्पन व महानता व्यक्ति के गुणों से निर्धारित होती है,  यह वैसे ही बढती है जैसे दूध से दही व दही से घी श्रेष्ठत्व को धारण करता है। *अर्थार्थी यानि कष्टानि* *सहते कृपणो जनः।* *तान्येव यदि धर्मार्थी* *न  भूयः क्लेशभाजनम्।।*...

Sanskrit Kavita By Dr.Himanshu Gaur

संस्कृत क्षेत्र में AI की दस्तक

 ए.आई. की दस्तक •••••••• (विशेष - किसी भी विषय के हजारों पक्ष-विपक्ष होते हैं, अतः इस लेख के भी अनेक पक्ष हो सकतें हैं। यह लेख विचारक का द्रुतस्फूर्त विचार है, इस विषय पर अन्य प्रकारों से भी विचार संभव है। ) ****** पिछले दशकों में किसी विद्वान् के लिखे साहित्य पर पीएचडी करते थे तब प्रथम अध्याय में उस रचयिता के बारे में जानने के लिए, और विषय को जानने के लिए उसके पास जाया करते थे, यह शोध-यात्रा कभी-कभी शहर-दर-शहर हुआ करती थी! लेकिन आजकल सब कुछ गूगल पर उपलब्ध है, आप बेशक कह सकते हैं कि इससे समय और पैसे की बचत हुई। लेकिन इस बारे में मेरा नजरिया दूसरा भी है, उस विद्वान् से मिलने जाना, उसका पूरा साक्षात्कार लेना, वह पूरी यात्रा- एक अलग ही अनुभव है। और अब ए.आई. का जमाना आ गया! अब तो 70% पीएचडी में किसी की जरूरत भी नहीं पड़ेगी। बेशक नयी तकनीक हमें सुविधा देती है, लेकिन कुछ बेशकीमती छीनती भी है। आप समझ रहे हैं ना कि कोई व्यक्ति आपके ही लिखे साहित्य पर पीएचडी कर रहा है और आपकी उसको लेश मात्र भी जरूरत नहीं! क्योंकि सब कुछ आपने अपना रचित गूगल पर डाल रखा है। या फिर व्याकरण शास्त्र पढ़ने के लिए...