।।
कविहिमांशुगौडप्रणीतस्य भावश्रीरिति काव्यग्रन्थस्य समीक्षात्मकमध्ययनम् ।।
भूमिका
प्राचीनकालादद्यावधिं यावत् प्रवर्तमानायां संस्कृतकाव्यरचनापरम्परायां दिने
दिने नव्यत्वं ध्रीयते । संस्कृतसाहित्यं वाल्मीकेरभ्य अधुनापर्यन्तं
नव्यत्वमापाद्य प्रवहमानं दृश्यते । कविकुलकमलकालिदासबाणभारविदण्डिभासादिकविभ्यः
प्रवहन्ती काव्यधारेयं नाद्यापि विरलायिता । अद्यापि
अभिराजराजेन्द्रमिश्र-रमाकान्तशुक्ल-निरञ्जनमिश्र-प्रभृतिभिस्सहस्रशः कविभिः
नानाकाव्यविरचनैस्संस्कृतसाहित्ये नवाभिवृद्धिर्विधीयते । अस्यामेव परम्परायां दर्शितकाव्यप्रतिभोत्कर्षवता
हिमांशुगौडमहाशयेन शतशः काव्यानि विरचितानि सन्ति तेष्वेव कानिचिद् अप्रकाशितानि,
कानिचिच्च प्रकाश्यङ्गतानि दृश्यन्ते ।
भावश्री-वन्द्यश्री-काव्यश्री-बाबागुरुशतक-पितृशतक-गणेशशतक-सूर्यशतक-कल्पनाकारशतक-दिव्यन्धरशतकादीनि
काव्यानि विरच्य कविरसौ स्वस्यासामान्यकाव्यकौशलस्य प्रदर्शनं कृतवान्। न केवलमस्य
काव्यानि सरलपद्धतिसृतान्यपितु , अस्य काव्येषु विद्वत्प्रौढत्त्वमपि बहुत्र
दृश्यते । अस्य रचितेषु श्लोकेषु नव्यत्वमनुभूयते , शास्त्रप्रागल्भ्यं
जोघुष्यते विन्मनस्सन्तुष्यते,
कविताप्राञ्जुलता दृश्यते । क्वचित् प्रकृतिवर्णनं क्वचिल्लोकदशानिदर्शनं
क्वचित्परपीडाज्ञापनं क्वचिज्जगदाधृत्य कवेर्दार्शनिकदृष्टिः,
क्वचिच्छास्त्रीयपक्षनिरूपणम् , क्वचिदात्मीयस्वरूपचिन्तनम् ,
क्वचिन्मनस्युदितभावानां सौष्ठवरीत्या प्रतिपादनं, क्वचित् कल्पनानां
वैचित्र्यञ्चाप्यस्य काव्येषु दरीदृश्यते । अस्य काव्येषु भावश्रीरिति यो ग्रन्थो
वर्तते , स वर्तते विभिन्नविद्वन्मित्रकव्यादिपरिचितेभ्यः
लिखितभावपत्रसङ्कलनात्मकः , किन्तु पत्रमिति निर्देशस्तु नाममात्रमेव । वस्तुतो
पत्रव्याजेन प्रतिपदमत्र स्वप्रतिभायाः प्रदर्शनं विधत्तमस्ति । स्वकल्पनानां
प्रकर्षता प्रादर्शि । स्वशास्त्रीय-लौकिक-पौराणिक-काव्यादि-सम्बन्धिज्ञानानां
वैशिष्ट्यं च दक्षतया विभिन्नच्छन्दोबद्धश्लोकैः प्रदर्शितमिति।
कवेर्हिमांशुगौडस्याध्ययनस्थलं वर्तते नरवराख्यम् । अतस्तस्य काव्येषु बहुत्र
तत्स्थलस्य गुणानां तत्रत्यवैदुष्यस्य चर्चा च विधत्ता । अत्र वयं भावश्रीग्रन्थे
प्रतिपादितविषयाणां सन्दर्भे किञ्चित्पश्यामः -
भावश्रीरिति काव्यग्रन्थे छन्दांसि -
चदि आह्लादे[1]
धातोः चन्देरादेश्च छः[2]
इत्युणादिसूत्रेण असुन् , चस्य छश्च कृते सति, छन्द इति शब्दो निष्पद्यते ।
छादनाच्छन्द इत्याहुः । ग्रन्थेऽस्मिन् अनुष्टुप्-वसन्ततिलका-मालिनी-इन्द्रवज्रा-उपजाति-शिखरिणी-द्रुतविलम्बित
-भुजङ्गप्रयात-पञ्चचामर-स्रग्विणी-स्रग्धरा-शार्दूलविक्रीडितानां छन्दसां प्रयोगः
कविना कृतः । अनेन कवेः छन्दोरचनानैपुण्यं विज्ञायते । अत्र केषाञ्चित् छन्दसां
लक्षणान्युदाहरणानि च दर्श्यन्ते -
अनुष्टुप्- लक्षणम्
- श्लोके षष्ठं
गुरुं ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुष्पादयोर्हृस्वं सप्तमं दीर्घमन्ययोः।।
उदाहरणम् -
कीर्तिकञ्चनकामिन्याशानां पाशैस्समाकुलाः।
बद्धाः धावन्ति सर्वत्र दृष्टं कौतूहलं महत् ।।२०।।[3]
वसन्ततिलका-
लक्षणम् – उक्ता
वसन्ततिलका तभजा जगौ गः । उदाहरणम् -
कुत्र भ्रमानि मुहुरेव किमुत्सृजानि ,
किं शब्दरूप इव वा करवाणि वायौ
भ्रान्तोऽप्यदृश्य इव वा मनसां विरूपैः, संलोकते क्वचिदनाप्तसुवर्णलोकान्।।४।।[4]
मालिनी- लक्षणम्
- ननमयययुतेयं
मालिनी भोगिलोकैः । उदाहरणम् -
सुरवरशुभभाले
शोभमानाद्धिमांशो:, विगलितकररूपैश्श्रीशिवप्रीतिभाजां
द्विजकुलपदनिष्ठप्राप्तकाव्यैकभावो, जनित
इव विबोध्यो गौड एवं हिमांशु:।।३।।[5]
इन्द्रवज्रा
– लक्षणम् – स्यादिन्द्रवज्रा यदि तौ जगौ गः । उदाहरणम् -
श्रीशङ्कराचार्य! गुरोऽस्मदीयं, हृज्जातभावं च भवान् शृणोतु
धर्मस्य चर्चां च करोमि काञ्चिच्चाधर्मरूपाण्यपि संसृतानि।।१।।[6]
उपजातिः
- लक्षणम् - अनन्तरोदीरितलक्ष्मभाजौ
पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम
।। उदाहरणम् -
आदौ भवत्पादसरोजसक्त:, प्रणम्य भक्त्या भुवि भक्तवृन्दम् ।
श्रीभारतस्याऽखिलधर्मविभ्राड् ,भवान् जनेभ्यश्शिवदो विभाति।।२।।[7]
शिखरिणी-
लक्षणम् – रसैः
रुद्रैश्छिन्ना यमनसभलागा शिखरिणी । उदाहरणम् -
तदा मत्काव्यानि श्रुतिनतिपराणीह भवता
विलोक्यावोच्येतन्मम शुभभविष्यैषणमपि
मयाऽर्कस्य श्रीमत्कमलपतिसूर्यस्य शतकम्
श्रितं यत्तच्चाद्य प्रणतिपरवाचा विरचितम् ।।५।।[8]
द्रुतविलम्बितम्
- लक्षणम् -
द्रुतविलम्बितमाह नभौ भरौ । उदाहरणम् -
अलिकुला सुमनोल्लसिता लता विहगरावरतं नवलं वनम्
मधुमये मधुवर्षिसुहर्षिणी जलझरी सुसरो जलजैर्युतम्।।५।।[9]
भुजङ्गप्रयातम्
- लक्षणम् –
भुजङ्गप्रयातं चतुर्भिर्यकारैः । उदाहरणम् -
अहो
क्षुद्रजीव्यं तथा नैकदृष्टिः पुनश्श्वासविप्रत्ययस्यात्र यात्रा
वृथा
क्रोधकामाकुलः लोभकारी निपत्यापि कूपे विनश्येच्च नैजम् ।।१७।।[10]
पञ्चचामर-
लक्षणम् -जराजराजगाविदं
वदन्ति पञ्चचामरम् । उदाहरणम् -
अतो विवस्वतश्शती कृता मया नतेस्ततिः,प्रसादमाप्य मत्प्रभां प्रवर्धयेच्च
भास्करः ।
मुदाऽर्चनैकपद्धतिस्सृता कवित्त्वसंश्रिता, प्रिया हि मालिनीनिबद्धचेतसा
सुमङ्गला ।।७।।[11]
स्रग्विणी-
लक्षणम् –
रैश्चतुर्भिर्युता स्रग्विणी सम्मता । उदाहरणम् -
सर्वनीतिं
निशायां दिवायां च वा,चर्चयन् मोदमाप्तो हिमांशुर्हि यो
तुभ्यमद्यास्ति
पद्यार्पणे संरतः,तान्यहान्यद्य सुस्मारयेत्सोऽत्र वै।।१३।।[12]
स्रग्धरा-
लक्षणम् – म्रभ्नैर्यानां
त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् । उदाहरणम् -
लालित्यैरक्षरैश्च प्रतिपदमनिशं मोहभङ्गैकनिष्ठै:
ताराम्बायास्स्तवोऽहो लसति नवपदस्थापितश्रद्धया च
यात्राभिर्दर्शनाद्यैर्विविधकलनदक्षस्य चित्तानुसारी
सद्भावानां प्रथापि प्रवहति बहुधा त्र्यकम्बकस्य प्रभावात्।।१।।[13]
शार्दूलविक्रीडितम्
– लक्षणम् - सूर्याश्वैर्मसजास्ततस्सगुरवश्शार्दूलविक्रीडितम्
। उदाहरणम् -
यातानीव दिनानि शीघ्रगतिभिर्वर्षत्रयस्यात्र वै
अद्यापीव तुदेत् सुखस्मृतिरहो विद्युच्चले जीवने
शोधच्छात्रतया त्वया च मयका कालश्शुभैर्यापित:
सङ्गीतादिकसक्तकाव्यरसिकैश्श्रीशैलजापूजया[14]।।१३।।[15]
भावश्रीरिति
काव्यग्रन्थे समागतानामलङ्काराणां विवेचनम्
शब्दार्थयोरस्थिरा
ये धर्मा शोभातिशायिनः । रसादीनुपकुर्वन्तोलङ्कारास्तेङ्गदादिवत् ।[16] इति
विश्वनाथोक्तिमनुसृत्य अलङ्काराश्शब्दार्थयोरस्थिराः धर्माः भवन्ति, ते
रसादींश्चोपकुर्वन्ति। अलङ्काराणां काव्ये बहुमहत्त्वं भवति । यतो हि काव्यग्रन्थोऽयं कलेवरेण विशालोऽस्ति
, अतोऽलङ्काराणां बाहुल्यमत्र लक्ष्यते ।
राधामाराधते बाधानाशिनीं यो बुधोऽधुना । तं राधावल्लभं वन्दे
राधावल्लभसुप्रियम्।।१।।[17]
इहास्मिन् पद्ये रकारधकारयो
पौनःपुन्येनावृतित्वाद् अत्र अनुप्रासालङ्कारः । तथैव यमकं पश्यामः -
हिमांशुभालप्रिय एष विप्रो हिमांशुगौडस्त्विति यो विधेयः।
हिमांशुरश्मिश्रितनव्यकाव्यं हिमांशुगुण्यस्तनुते हिमाभम्।।२।।[18]
इह
हिमांशुरिति समासस्थस्य शब्दस्य पौनःपुन्येनावृत्तिः, किन्तु सर्वत्र पृथग्
विशेषणत्वात् पृथगेवार्थः । अतोऽत्र
यमकालङ्कारः । तथैव स्वभावोक्तिं पश्यामः -
श्वानो
भ्रमन्ति परितोऽपि गृहाणि चान्नं, जग्धुं शनैश्चरदिनेषु च कृष्णवर्णाः ।[19]
अत्र श्लोके
शुनां या स्वाभाविकी क्रिया पूर्णेऽपि दिवसे
भ्रमणं तस्य चित्रणं कृतमतोऽत्र
स्वभावकथनकारणात् स्वभावोक्त्यलङ्कारः। उपमा रूपकश्च अधोलिखिते पद्ये दृश्येते -
किन्त्वत्र
मे न रमते मनसां मयूरो, ग्राम्ये रमेत परिनृत्यति मेघलोकैः ।
अम्बूज्झरीव
झरति श्रुतिभाववारां, वायुप्रवाह इव शैवविचारकल्पः ।।१५।।[20]
इह मनसां,
मयूरत्वे अभेदारोपः रूपकत्वं पुष्यति । तथैव अम्बूज्झरी इव श्रुतिभाववारां – इह
श्रुतीनां ये भावाश्श्रुतिभावास्त एव वारः इति श्रुतिभाववारस्तेषामिति ।
श्रुतिभाववारां तुलना अम्बूज्झर्या सह कृतास्ति, अतोऽत्रोपमालङ्कारः
। तथैव चतुर्थपङ्क्तौ शैवविचारकल्पस्य वायुप्रवाहेण सह उपमा प्रदत्तास्ति ।
आकृष्येव मनोमृगान् कुविषयाणां व्याधगीतिश्च हा
हन्ति क्रूरतया, ह्यतो नरवरैस्त्याज्या इमे यत्नतः।।६।।[21]
इत्यत्रापि
कुविषया व्याधगीतयः प्रोक्ताः, अभेदत्त्वात् रूपकत्वम् । मनश्च मृगत्वेन दर्शितम्
अतोऽत्रापि रूपकदर्शनम् । एवमेव भूयोऽत्र काव्ये अलङ्कृतीनाम्प्रयोगो दृश्यते ।
काव्येऽस्मिन् निहितानां रसानां विवेचनम् – वाक्यं रसात्मकं काव्यमिति[22]
यदुक्तं काव्यलक्षणं विश्वनाथेन तदनुसृत्य वयमप्यत्र काव्ये रससिद्धिं कुर्मः।तथैव
रसस्य परिभाषा एवं प्रदत्ता साहित्यदर्पणे - विभावेनानुभावेन व्यक्तः
सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायिभावः सचेतसाम् ।[23]
यद्यपि भावश्रीरिति पत्रकाव्यसङ्ग्रहात्मको ग्रन्थो वर्तते कविचिन्तनलोकदर्शि
नानाविषयदेशदशालोकघटनादिविवेचकं शास्त्रविविधस्वरूपनिदर्शकं च काव्यं , यद्यप्यत्र
महाकाव्य-कथादिवद् एकमेव वंश-व्यक्ति-विषय-विशेषमादाय न श्रीयन्ते
विचारधारास्तथापि यत्र-कुत्रचित् कस्याश्चिद् घटनायाः विवेचनावसरे प्रकटितं
भवत्येव तत्र रसवैशिष्ट्यं, तदेव चात्राहं प्रकटयामि ।
वीररसः –
श्रीमत्त्र्यम्बकेश्वरचैतन्यमहाराजाय लिखिते पत्रे कविना यज्ञस्थले
किञ्चिद्युद्धवर्णनं कृतमस्ति -
पात्राणां
क्षालने सर्वे रक्तास्ते कृतभोजनाः । अन्यस्थलस्य दुष्टेन साङ्गवेदिकृशद्विजः।।९।।
पीडितो
बलमत्तेन कटारा रुष्टवांस्तदा । एकेनापि हि वीरेण शतशः ताडिताः मुहुः।।१०।।
कटारेति
कटारेति नाम गुञ्जितवत्तदा । यज्ञक्षेत्रे च सर्वत्र भीतास्तेनाऽन्यदुर्जनाः।।११।।[24]
इह कटाराख्यः कश्चित् नरवरस्थलस्य ब्राह्मणः । यदा यज्ञस्थले
सहस्रशः विप्रेषु साङ्गवेदी कृशः कश्चिद्
दुर्बलो नरवरस्य ब्राह्मणः केनचित् अन्यस्थलस्य बलमत्तेन जनेन पीडितः, तदा कटारा
क्रुद्धो जातः, तेन चैकेनैव शतशो दुष्टाः ताडिताः, तदेवात्रोपस्थापितं कविना ।
करुणरसः –
श्रीमज्ज्ञानेन्द्रपाठकाय
लिखितपत्रे कविः मृतकगृहस्य वर्णनं करोति , यत्र स ब्राह्मणरूपेण कर्म कर्तुं गतः –
साकं मृतस्य निलये जपितुं च शान्त्यै, यद्वा
त्रयोदशदिनेष्ववसं च मूढः
बाबूगढे मृतगृहे ह्यपि सूतके च, स्त्रीणां च रोदनमये
विलपत्सु पुंसु ।।[25]
इह मृतक
उद्दीपकः , तन्मृत्युस्मरणेन रोमाञ्चः, गात्रकम्पनादिकं च सञ्चारिभावः , ततो
विलपनं रोदनं च करुणरसोत्पत्तिं करोति ।
शृङ्गाररसः – इह भोपालपरिसरस्य प्राचार्याय प्रो.एम्.चन्द्रशेखराय
लिखितपत्रे कासाञ्चित् कामुकीनां स्वार्थपराणां च बालानां वर्णनं करोति, तदा
शृङ्गार उत्पद्यते -
नैवाङ्गना
इह च सज्जनपङ्क्तिगण्यास्ता वै सदा
स्मरकलाकलनेषु दक्षाः
एकेन
साकमपि नो, बहुभिस्स्मरार्तैरेकान्तकक्षगमनं रमणं चरन्ति ।।३०।।[26]
इह अङ्गनानां एकान्तकक्षे गमनं, ततो नैकैः कामुकैः सह युगपद्
रमणं च प्रोक्तम् , तत् साक्षात् सम्भोगशृङ्गारं पुष्यति । अत्र एवमपि ध्येयं यत्
कविनात्र पारम्पारिकरीत्या रसोपस्थापनं न कृतम् अपितु घटनानाम्
अङ्गुलिनिर्देशमात्रं कृतं, यस्मात् पूर्णरूपेण चेष्टादीनां वर्णनस्याभावात्
साहित्यशास्त्रोक्तरीत्या रससिद्धिः कर्तुमत्र तथा न शक्यते ।
भावश्रीरिति
काव्ये प्रयुक्तानां सूक्तीनां विवेचनम्
सूक्तयस्ताः
भवन्ति याभिर्मनुष्यः काञ्चित् प्रेरणां प्राप्नोति । याः किञ्चिन्मोद्यतरं तथ्यं
प्रकटयन्ति । याभिर्लघ्वीभिस्सतीभिरपि जीवनसारो लभ्यते । याभिरल्पकालेन
प्रसन्नात्मना च तथ्यमवाप्यते । भावश्रीग्रन्थे सूक्तीनां बाहुल्यं वर्तत एव ।
तासु काश्चिदत्र दर्श्यन्ते -
१.प्रत्ययस्ते शिवेऽहो प्रभावङ्गतस्त्वत्सुभावोऽद्य
साफल्ययुग्दृश्यते[27] - इह विश्वासमहत्ता सद्भावेन सुफलप्राप्तिश्च निर्दिष्टा ।
२. नो नागरैश्च सुलभं प्रकृतेस्सुचित्रम्[28]
– अत्र ग्राम्यानां अपेक्षया प्रकृतिलाभसन्दर्भे नगरवासिनां
हानिर्दर्शिता ।
३.यथा तमांसि सूर्यराट् निहन्ति वै निराशतां,तथैव
हृज्जदुःखमेव काव्यभाः विनश्यति[29] - इह सूक्त्यानया काव्यमहत्ता ज्ञायते ।
४. सङ्घेऽस्ति शक्तिरिति वृद्धजना वदन्ति[30] – प्रथमपत्र एव सूक्तीयं एकतामहत्त्वं
ज्ञापयति । समूहशक्तिं प्रख्यापयति ।
५. कल्याणरोधकरणस्स्मर एव नूनम्[31] – इह कामस्य
कल्याणरोधकरणत्वमुक्तम् ।
इत्यादिप्रकारैश्शतशस्सूक्तयो
भावश्रीग्रन्थे प्राप्यन्ते या अस्माभिश्शोधावसरे वैशिष्ट्येन विख्याप्यन्ते ।
भावश्रीरिति
काव्यग्रन्थे सामाजिकचिन्तनम्
भावश्रीरिति
ग्रन्थे कविना बहुत्र अधुनातनस्य समाजस्य विषये स्वविचाराः प्रकटितास्सन्ति ,
बहुत्र विडम्बनानां सन्दर्भे चिन्ता प्रदर्शितास्ति -
गुरुशिष्यसुसम्बन्धो नष्टो, मैत्री परस्परम् । वित्तमाश्रित्य जायन्ते
विवाहा:, न गुणाश्रिताः ।।१७।।
सुशीलोऽपि युवा विद्वान् सुन्दरश्च गुणान्वित:। अनूढस्सीदतीवाद्य अल्पवित्तश्च
चेद्भवेत्।।१९।।[32]
अनेन
प्रकारेणास्माभिरत्र दृष्टं यत् कविस्सामाजिकचिन्ताशीलस्सन् बहुविधतया जागरूकोऽप्यस्ति । भावश्रीग्रन्थे इतोऽप्यतिरिच्य नैकेषु स्थलेषु सामाजिकतथ्यानां
प्रकाशनं कृतम् ।
काव्येऽस्मिन् धार्मिकतथ्यप्रतिपादनम्
विप्रस्य अशौचमापन्ने किं विधेयमिति वक्ति –
यज्ञोपवीतपरिवर्तनपूर्वकञ्च , गायत्र्यममुं जप जन
त्रिदिनेष्वभोजी
गङ्गाजलैरपि च गोमयलेपनैश्च , स्नाहि प्रभातसमये
दिवसान्तकाले ।।६।।
बाबागुरुस्त्वपि विधिप्रतिबोधनेन , रुद्रस्य सूक्तमथ रे जप
चेत्यवोचीत्
श्रीजाह्नवी निखिलपातकनाशिनी वै ,तत्सेवनैर्न शुचितां
प्रतियाति को वा ।।७।।[33]
तथैवान्यदपि -
हरिभक्तौ
मनो यस्य संसारे नैव मज्जति । इन्द्रियार्थप्रसक्तो वै मज्जन्सन्नपि लज्जते ।।९।।
वृद्धत्त्वे
हरिनामैकं सर्वसारं विबुध्य च । त्यक्त्वा मोहं कुटुम्बस्य भजेच्चेत्
सौख्यमाप्नुयात् ।।११।।[34]
इदं पत्रं कविना श्रीखेमचन्दनामकाय स्वग्रामस्थवृद्धाय
लिखितमस्ति । अत्र तस्मै सनातनधर्मस्य महिमा हरिनामश्रेष्ठत्त्वं सनातनधर्मं
विहायान्यधर्माणां त्यागश्च प्रोक्तः ।
भावश्रीग्रन्थे
तान्त्रिकतथ्यानामनुशीलनम् -
कविना हिमांशुगौडेन भावश्रीरिति ग्रन्थे आचार्यजीतवे लिखिते
पत्रे तान्त्रिकी चर्चा कृतास्ति । जीतू इत्याख्यः जनः, कवेः सुहृत् कश्चित्
तान्त्रिको वर्तते , कविरपि च तेन सह तन्त्रचर्चां प्रायः कुरुते ।
कवेस्तन्त्रशास्त्रीयं ज्ञानमत्र पत्रे विलोक्यते यक्षिणीसाधनविषयकम् । यक्षीस्वरूपं वर्णयति -
अश्वत्थलम्बवपुषा
प्रकटीभवेच्चेद् ,रक्ताम्बरेण परिवेष्टितमस्तका सा
नृत्यन्त्यथोच्चरवरोदनभीतिहासा,
हिंस्रैश्च जन्तुभिरहो क्वचिदावृताऽपि ।।१३।।[35]
तथैवापराय विदुषे लिखिते पत्रे डाकिनीम् उपस्थापयति -
चेड्डाकिनी
भ्रमति खे तव कक्षपार्श्वे, कूपे वसन्त्यपि च या बहुवत्सरैश्च ।
विप्रैरहो
विविधरूपधरी विलोक्या, तस्यास्सुरक्षय निजं कपिचिन्तनेन ।।१३।।[36]
उपरि प्रदत्तेऽस्मिन् श्रीओमशर्मणे लिखितपत्रेऽस्माभिः तान्त्रिकशास्त्रगदितं डाकिनीवर्णनं लब्धं
, तथा तन्त्रसमर्थितं भूतभयनाशकत्वेन गृहीतं कपिचिन्तनञ्चापि दृष्टम् ।
ताराम्बा बत तान्त्रिकैर्दशमहाविद्यासु सङ्गीयते
वामाचारिपरम्परापृतजनैस्तद्वत्पृथक् साऽर्च्यते[37]
इह
ताराख्यदेव्याः उल्लेखः कृतः कविना । सापि तन्त्रपण्डितैर्दशमहाविद्यासु गीयत इति
।
प्रस्तुतकाव्ये
प्रकृतिसम्बन्धिचिन्तनम्
अत्र ग्रामे रात्रिदृश्यं
मनोहारकम् -
चान्द्रीकला
वितरतीह सुधां निशासु , तारागणैर्नभसि रम्यसुचित्रकल्पः।
तादृक्सुखप्रदसुदृश्यमहोऽत्र
लभ्यं, ग्राम्यं न कैस्सहृदयैरपि हातुमिष्टम् ।।९।।[38]
एवम्बहुत्र काव्येऽस्मिन्
प्रकृतिसुरम्यदृश्याण्युपस्थापितानि सन्ति । उत्तरप्रदेशसंस्कृतसंस्थानस्य
अध्यक्षाय श्रीवाचस्पतिमिश्राय लिखिते पत्रे , आधुनिककाले प्रकृतेर्विनाशं वीक्ष्य
द्रवीभूतहृदयः कविरत्र तद्विषये चिन्तां प्रकटयति – भूजलस्तरहानिश्च
तापमानाभिवर्धनम् । हिमखण्डा: गलन्तीव नद्यो नश्यन्ति भारते।।२१।।
गङ्गा गोदावरी नष्टा कालिन्दी च सरस्वती । धर्मकर्माणि नष्टानि जनानां हृदयानि च ।।२९।।[39]
एवमत्र
प्रकृतिभूत-नदीवृक्षादीनां विनाशं दृष्ट्वा दुःखितकविरत्र स्वीयभावान् प्रकटयति ।
भावश्रीग्रन्थे
विभिन्ननगराणां चित्रणम्
भोपालम् – अत्र भोपालतो दिल्लीं समागतः कविः स्वभोपालनिवासदिनानि स्मरन्
भोपालप्रकृतिचित्रणं करोति प्रो.प्रकाशपाण्डेयाय लिखितपत्रे -
किन्तानि नीरददिनानि तथैव चाद्य, हृद्यानि
यौवनविलाससमुत्सुकानि
भोपालदेशखगतानि
वयांसि वापि,दृश्यन्त आगतजनैरिह नीरजानि ।।१।।[40]
दिल्ली – दिल्ल्यां
कवेर्मनो न रमते , ग्रामप्रकृतिप्रियत्त्वात् , अतस्तन्निरूपयति -
प्रदुष्टोऽत्र वायुः नृणां वा मनांसि न
कस्यापि कोऽपीह वर्तेत मित्रम्
कुदिल्लीप्रदेशो न मे रोचते वै यदा धावतां वीक्ष्य लब्धुं च
वित्तम् ।।९।।[41]
नरौरा – इह नरौरानगरस्थलं स्मरति स्वगुरुस्थलीरूपेण -
हे बुध श्रीजलक्षालिते सत्तटे, तन्नरौरापुरस्थेऽस्ति विद्वत्पुरः[42]
प्रयागः – इह प्रयागं गते सति तत्र कुम्भोत्सवं वीक्ष्य मनोभावं प्रकटयति
वाचस्पतिमिश्राय –
कार्यार्थं
गतवान् प्रयागनगरे कुम्भोत्सवे श्रीजले
स्नातुं, तत्र विराजितश्शतमखैर्युक्तो महामण्डप:[43]
एवमस्माभिर्विलोक्यते यत् काव्येऽस्मिन् बहूनां नगराणामुल्लेखः कविना कृतोऽस्ति । क्वचित्तत्तत्प्रकृतिवर्णनमपि कृतमस्ति ।
अत्र सम्पूर्णतया तन्न दातुं शक्यतेतोल्पनैव मार्गेणोल्लेखः कृतः ।
भावश्रीग्रन्थे
संस्कृतसम्बन्धिचिन्तनम् –
इह वाचस्पतिमिश्राय लिखितपत्रे
संस्कृतोद्धार-प्रचार-प्रसारादिविषयकं चिन्तयति कविः -
कुत्रचित्पाठनं कुर्याच्छोभायात्रा क्वचिच्चरेत् । पठेयुस्संस्कृतं सर्वे
ध्येय इत्येव नापरः।।७।।
गृहे गृहे गिरा दैवी स्याल्लक्ष्यं हृदि संधरेत् । सर्वदा संस्कृतेनैव
भाष्यतां हास्यतां जनैः।।८।।[44]
एवमेव बहुत्र
भावश्रीग्रन्थे (पत्रसङ्ग्रहात्मके) संस्कृतकल्याणविषयिणी चर्चा कृताऽस्ति ।
भावश्रीग्रन्थे
विभिन्नशास्त्रीयतथ्यानां चर्चा-
व्याकरणचर्चा –
अत्र
आधुनिका ये शाब्दिकाः केवलं शब्दशास्त्रमधीत्य न तस्य लोकप्रयोगं न च
वैदिकार्थनिश्चयाय च तत्प्रयोगं कुर्वन्ति तद्विषये प्रोक्तं कविना –
शब्दप्रसाधनरता उत शाब्दिका ये, सूत्रैश्च पाणिनिकृतैर्घटयन्ति चित्ते
काव्यादितत्त्वपरिभाषणशून्यचित्ता:, अर्थान् विदन्ति नहि मूलतया श्रुतीनाम्।।९।।[45]
कर्मकाण्डतथ्यचर्चा
–
अस्मिन्
भावश्रीग्रन्थे धार्मिककर्मकाण्डसन्दर्भेऽपि
बहुत्र चर्चा कृतास्ति । यथा -
बहून्याचमनान्येवं
विनियोगाः पुनः पुनः। सङ्कल्पाश्चैव मन्त्राश्च चरन्तो जाह्नवीतटे ।।८।।[46]
इह श्लोके
श्रावणीपर्व आचरतां ब्राह्मणानां दृश्यमुपस्थापितं कविना । तेषां क्रियमाणं कर्म
चाप्यग्रे वर्ण्यते ।
अनेकशास्त्रसम्बन्धिचर्चा -
ज्योतिषे निपुणाः केचिन्नक्षत्रसूचकाश्च ये । कर्मकाण्डे समे विप्रा रता नानापुरेषु
वै ।।५०।।
स्वरं वापि समासं वा सन्धीन् कृत्तद्धितानपि । यङ्सन्क्यच्प्रत्ययान्वापि
विदन्तीह जना न ये ।।५३।।
अहो सीदन्ति सर्वत्र पौरोहित्यादिदर्शने । साहित्ये वापि पठने शब्दार्थस्य
विनिर्णये ।।५४।।[47]
इह
जैनेन्द्रभारद्वाजाय लिखितपत्रे कविर्बहूनां विषयाणां चर्चां करोति । इहैव चाग्रे
स शब्दार्थानवच्छेदे विशेषस्मृतिहेतूनपि वक्ति स्वश्लोकैः । अत्र
विस्तरभयात्तन्नोपस्थाप्यते ।
स्वरशास्त्रीया
चर्चा – अत्र व्याकरणशास्त्रीयं यत्स्वरशास्त्रं तद्वर्तत
उदात्तानुदात्तस्वरितादिनिदर्शकम् , तस्यैव चर्चां करोत्यत्र कविः -
चितश्चान्तोदात्तो
भवति तु तितस्ते स्वरितता, सदैवान्तोदात्तो गदितमथ धातोः प्रथमतः
समासस्याप्यन्तो
व्रजति च मुदोदात्तपदवीम् ,उदात्तादिर्वै प्रत्ययगतविधिः पाणिनिमुखात् ।।८।।[48]
इह कविना उदात्तानुदात्तस्वरितस्वराणां
धातुप्रत्ययादिगतानामुल्लेखः कृतः । एतन्मया शोधप्रबन्धे विस्तृतरूपेण लेखिष्यते ।
ज्योतिषशास्त्रचर्चा – कविः तुलाराशिस्थितस्य सूर्यस्य नीचत्वं दर्शयति -
तुलास्थांशुमान् पञ्चमस्थो निदृष्टो, बुधश्वेत[49]युक्तोऽस्ति मज्जन्मपत्रे ।।[50]
एवं दृश्यते
यत्काव्येऽस्मिन् विविधशास्त्राणामपि तथ्यानि समुद्घाटितान्युल्लेखितानि
च सन्ति ।
भावश्रीग्रन्थे
संस्कृतविदुषामभिनन्दनम् –
ग्रन्थस्यास्य
इदं वैशिष्ट्यं वर्तते यदत्र पदे पदे संस्कृतविदुषां प्रशंसनम् अभिनन्दनं च
कृतमस्ति । यतः कविः ग्रन्थेस्मिन् स्वज्येष्ठेभ्यो गुरुभ्यः कविभ्यश्च पत्रं
लिखति , अतः पत्रादौ तस्य वैशिष्ट्यं ख्यापयति , व्यवहारकुशलत्वाद् आदौ वन्दनं च
कुरुते । मध्ये मध्येऽपि बहुत्र शास्त्रविदां
प्रशस्तिस्तु काव्येऽस्मिन् दृश्यत एव ।
श्रीराधावल्लभत्रिपाठिने लिखितपत्रे अस्मिन् पद्ये कविः
स्वगुरोः प्रशंसां कुर्वन् तं प्रणमति -
धर्मैकजीवितशिवो द्विजपालनश्श्री-बाबागुरुस्त्विति पदाख्यगुरुं नमामः।।१२।।[51]
तथैव अधोलिखिते पद्ये कविः स्वीयशोधनिर्देशकाय डॉ.कैलासदाशाय पत्रं लिखति, आदौ
च शाब्दिकजनानामपि प्रियशाब्दिकः यः इति
बहुव्रीदिपदेन तं प्रशंसति -
कैलासचन्द्रगुरवे
विनिवेदयामि, दाशाय शाब्दिकजनप्रियशाब्दिकाय[52]
अत्र
सम्पूर्णानन्दसंस्कृतविश्वविद्यालस्य भूतपूर्वकुलपतये पद्मश्रीभूषिताय
अभिराजराजेन्द्रमिश्राय लिखिते पत्रे तेषां काव्यानां प्रशंसां करोति कविरत्र -
केचिद्वदन्ति कवयेदभिराजमिश्रस्तेजस्विभाषणपरः प्रवदन्ति
चान्ये ।
शास्त्रेषु तीक्ष्णमतिरित्यपरे निशम्य धन्यो भवानिति वदामि
हिमांशुगौडः।।९।।[53]
तथैव भाति
मे भारतमिति ग्रन्थलेखकाय पद्मश्रीभूषिताय रमाकान्तशुक्लाय अपि कविना
पत्रमलेखि ग्रन्थेऽस्मिन्, तस्यापि संस्तवं करोति -
काव्यकान्तं नुमस्सत्सु भान्तं नुमो भारतीभाविधानप्रधानं नुम:
राजधानीनिवासं प्रमोदं सतां श्रीरमाकान्तशुक्लं नुमश्श्रद्धया।।१।।[54]
एवमेव
राष्ट्रियसंस्कृतसंस्थानस्य भूतपूर्वकुलपतये प्रो.राधावल्लभत्रिपाठिने लिखिते
पत्रे आदौ तमभिवन्दते -
राधामाराधते बाधानाशिनीं यो बुधोऽधुना । तं राधावल्लभं वन्दे
राधावल्लभसुप्रियम्।।१।।[55]
अतोऽनेन प्रकारेण दृश्यते यत्काव्यग्रन्थेऽस्मिन् बहुशो विदुषामभिनन्दनानि तद्गुणवर्णनानि च
लभ्यन्ते ।
प्रस्तुतकाव्ये
विविधदेवतानां स्तुतिनिरूपणम् -
कृत्वा प्रणाममथ शैलसुतासुतं तं,श्रीमच्छिवस्य तनयं शुभदं गणेशम् [56]
अत्रादिश्लोकत्त्वेन
गृह्यते ग्रन्थस्यास्य उपर्युक्तपद्यम् । अत्र भगवतो गणेशस्य प्रार्थनापूर्वकं
शिवनामोच्चारणपूर्वकं गुरुस्मरणमपि कृतमस्ति । पत्रमिदं कविना स्वगुरवे
बाबागुरुरित्युपाधिभूषितायैव लिखितमस्ति ।
धर्मगुरवे
स्वमित्राय कौस्तुभमिश्राय लिखिते पत्रे स हनुमत्प्रशस्तिमपि ख्यापयति -
श्रीमत्कपीशचरितं
हृदये निधाय, भक्त्या गतो हि परिनिष्ठितपूजया च ।[57]
एवमेव
शिवादीनामपि बहूनां देवानां स्तुतिरत्र काव्ये नैकस्थलेषूपलभ्यतेऽत्र ।
प्रस्तुतग्रन्थे
नरवरस्थलविषयिणी चर्चा –
काव्येऽस्मिन् बहुत्र स्थले स्थले कविना स्वगुरुस्थलस्य छात्रजीवनस्य
च मुख्यभूतस्थलस्य नरवराख्यस्य उल्लेखः कृतः -
तस्मादहं
नरवरादिति विज्ञभूमेः,
गङ्गातटस्थितविभिन्नशिवालयाच्च।[58]
अत्र
पुनस्स्वनरवरच्छात्रत्वं ज्ञापयति श्रीमद्धंसधराय -
विप्रोऽयन्तु सदा मुदा नरवरे
गङ्गावगाहे रतः[59]
एवमस्माभिर्दृष्टं यद् अस्मिन् ग्रन्थे बहुत्र
नरवरस्थलविषयिणी चर्चा कविना कृतास्ति ।
भावश्रीग्रन्थे
भोपालपरिसरवर्णनम् – ग्रन्थेऽस्मिन् कविः, केन्द्रियसंस्कृतविश्वविद्यालयस्य
भोपालपरिसरस्य शोधच्छात्रस्सन् तत्रैव छात्रावासे निवासं करोति स्म । अतस्तेन तत्र
वसता सतैव तदान्तीनस्य तत्स्थलस्य तत्रत्यगतिविधीनाञ्च वर्णनमपि कृतमस्ति ।
श्रीचन्द्रशेखरबुधाऽत्र
भवत्सकाशे संस्थानसंस्कृतशुभप्रथितप्रदेशे ।
भोपालरम्यनगरे
सुखदे धनाद्यैश्छात्राः नवाशमनसा पठनेषु रक्ताः ।।१।।[60]
इत उपस्थापयति
भोपालपरिसरविषयकं, ततः -
काव्यप्रदर्शनमहो
न करोमि गर्वाद् विद्याप्रदर्शनमपि प्रतनोमि नैवम्
बुद्धौ परिस्फुरितभावनिदर्शनाय
तुभ्यं निवेदयति पत्रमिदं द्विजोऽसौ ।।७८।।[61]
इत्येतावत्पर्यन्तं
च पत्रं समापयति । एवं सप्ताशीति-श्लोकात्मकेऽस्मिन्
पत्रे , कविरन्ते स्वपत्रलेखनहेतुमपि वक्ति ।
भावश्रीकाव्ये
कल्पनावैचित्र्यम् - श्रीचान्दकिरणसलूजामहोदयाय लिखितपत्रे स स्वीयचित्तस्य कल्पनानां,
विचित्रस्वप्नानां च वर्णनं करोति -
किं वा वदानि
मतिमन्! निजचित्तकल्पां, सम्यग्भ्रमेन्मम मनो
विविधार्थवत्सु ।
लोकेषु
शैवपितृलोकनिदर्शनेषु, ताम्रेषु हेमनगरेष्वपि राजतेषु ।। २३।।[62]
एवमेव
बिल्वपत्ररसस्य सुगन्धिना काञ्चिद्धर्षदशां प्राप्नोति कविरिति, कवेः
कल्पनावैचित्र्यं वर्णयति –
अस्मच्चित्तेषु कोऽयं नश्शिवो भूत्त्वा प्रवेगवान् । बिल्वपत्ररसोद्गन्धीभूय
भूयोऽनुधावति ।।२७।।[63]
इत्यनेन कवेः बिल्वपत्रेण सह सम्बन्धोऽपि
दृश्यते । यतो हि शिवभक्ताः बिल्वाद्यैरेव शिवमर्चयन्ति, अतोऽस्येदं विचित्रकल्पनाजागरणम् ।
शोधोद्देश्यम् –
प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते इत्युक्तिं
समाश्रित्य कस्यापि शोधस्य किमपि उद्देश्यविशिष्टं भवति । तथैवास्माकमप्यस्य
शोधस्य उद्देश्यं आधुनिकसमाजे आधुनिकसंस्कृतकाव्यपठनाय रुचिजागरणम्।
संस्कृतस्याधुनिकेऽपि साहित्ये सामाजिकं
प्राकृतिकं नागरिकं शास्त्रीयञ्च चिन्तनं भवतीति विज्ञापनम् । अधुनातनेऽपि काले संस्कृतभाषामवलम्ब्य तादृशानि काव्यानि
रच्यन्ते, यैः समाजोऽयं प्रेरणां प्राप्नुयात् , अध्येतारो नव्यदिशां
लभेरन् , साहित्यक्षेत्रे च अधुनापि विभिन्नचिन्तनसम्पन्नाः , लोकचिन्तकाः ,
शास्त्रबोद्धारश्च कार्यं कुर्वन्तीति बोधनं सर्वेभ्यस्स्यादिति । तथैव
अस्मच्छोधस्य प्रमुखोद्देश्यं त्वेतदपि यत् , संस्कृतविभागीयाश्छात्राः अपि
आधुनिकसंस्कृकाव्यानि पठितुं प्रेरितास्स्युस्ते जानीयुश्च यत् संस्कृतकाव्ये
केवलं पारम्परिकरूपेण रसच्छन्दोलङ्कारमात्रान्वेषणं न भवति, अपितु अत्राद्यापि
लोकहितचिन्तनम्, वर्तमानपरिस्थितिविचारः, विभिन्नशास्त्रीयचिन्तनञ्चास्तीति ।
शोधौचित्यम् -
अधुना ये
शोधच्छात्राः महाकाव्यखण्डकाव्यानि शोधविषयत्त्वेनाङ्गीकुर्वन्ति , ततस्तस्य
रसच्छन्दोऽलङ्कारद्यन्वेषणं कृत्वैव
साहित्यशास्त्रे नैपुण्यमात्मनो मन्यन्ते , तेषाङ्कृते शोधोऽयम् अत्यन्तम् औचित्यपूर्णं वर्तते । तथैवाद्य
संस्कृताद् दूरीभूताय छात्रवृन्दाय संस्कृतकाव्यपठनाय प्रेरणम् अत्यावश्यकं वर्तते,
तत्र चाधुनिककाले लिखिते काव्ये जायमानेन शोधेनानेन छात्राः आधुनिकलोकस्थितीः ,
वर्तमानकालस्य घटनाश्च साहित्यिकदृशा, शोधपूर्णमार्गेण च ज्ञास्यन्ति, अतोऽस्य शोधस्यौचित्यं सुस्पष्टमेव ।
शोधसीमानिर्धारणम् -
अस्माभिश्शोधेऽस्मिन् केवलं तेषामेव तथ्यानां विषये चर्चा
विधास्यते , येषामुल्लेखोत्र अध्यायविभाजने कृतः। तथैव एक एव विषयो यदि द्विरापतति
तर्हि तत्र वैशिष्ट्याभावे सति, तस्य पुनर्व्याख्यानं शोधरीत्या समीक्षणं च
शोधकर्त्त्रा नेह विधास्यते ।
शोधसम्बन्धितसामग्रीचयनम्
१.अनुसन्धात्रा प्रस्तुतकाव्यस्य पौनःपुन्येन साहित्यिकमनुशीलनं
विधाय अन्यकाव्यग्रन्थविलोकनद्वारा चात्र स्वशोधप्रगतिर्विधास्यते ।
२.शोधकर्त्त्रा विभिन्नग्रन्थालयान् गत्त्वा काव्यस्य काव्यानुशीलनसम्बद्धशोधानाम्
अध्ययनं करिष्यते ।
३. आपन्नशोधस्य विषये नैकेषां विदुषां परामर्शो लप्स्यते ।
४. प्रस्तुतशोधबाधा अपाकर्तुं साहित्यिकाः काव्यविद्वान्सश्च
सेविष्यन्ते ।
५. काव्यस्यास्य विशिष्टगूढतात्पर्यं विज्ञातुं काव्यप्रकाश-साहित्यदर्पणादिग्रन्थानां
साहाय्यं ग्रहीष्यते ।
६. प्रस्तुतकाव्यस्य समीक्षणं प्राच्यपाश्चात्यविदुषां
प्रकटितसिद्धान्तालौकैः सम्पत्स्यते ।
अध्यायविभागः
प्रथमोऽध्यायः
प्रस्तावना
१.१.भावश्रीरिति
ग्रन्थस्य सामान्यपरिचयः
१.२.भावश्रीकर्तुस्सामान्यपरिचयः
१.३.
संस्कृतसाहित्ये भावश्रीकाव्यस्य महत्त्वम्
१.४.आधुनिककाले
प्रस्तुतकाव्यस्य औचित्यनिरूपणम्
१.५.
संस्कृतसाहित्यस्येतिहासः (सामान्यालोके)
द्वितीयोऽध्यायः
प्रस्तावना
२.१.
भावश्रीरिति काव्यग्रन्थे प्रयुक्तानां छन्दसां विवेचनम्
२.२.
भावश्रीरिति काव्यग्रन्थे समागतानामलङ्काराणां विवेचनम्
२.३. काव्येऽस्मिन् निहितानां रसानां विवेचनम्
तृतीयोऽध्यायः
प्रस्तावना
३.१.भावश्रीरिति
काव्यग्रन्थे सामाजिकी उद्भावना
३.२.काव्येऽस्मिन् धार्मिकतथ्यप्रतिपादनम्
३.३.भावश्रीग्रन्थे
तान्त्रिकतथ्यानां समीक्षणम्
३.४.प्रस्तुतकाव्ये
प्राकृतिकसौन्दर्यचित्रणम्
३.५.भावश्रीग्रन्थे
विभिन्ननगराणां चित्रणम्
चतुर्थोऽध्यायः
प्रस्तावना
४.१.भावश्रीग्रन्थे
संस्कृतसंवर्धनभावनाः
४.२.भावश्रीग्रन्थे
विभिन्नशास्त्रीयतथ्यानां चर्चा
४.३.भावश्रीग्रन्थे
संस्कृतविदुषामभिनन्दनम्
४.४.प्रस्तुतकाव्ये
विविधदेवतानां स्तुतिनिरूपणम्
४.५.प्रस्तुतग्रन्थे
नरवरस्थलविषयिणी चर्चा
पञ्चमोऽध्यायः
प्रस्तावना
५.१.
भावश्रीकाव्ये भोपालपरिसरवर्णनम्
५.२.
प्रस्तुतग्रन्थे कल्पनावैचित्र्यम्
५.३. भावश्रीरिति
काव्ये प्रयुक्तानां सूक्तीनां विवेचनम्
उपसंहारः
साङ्केतिकशब्दविवरणम्
सन्दर्भग्रन्थसूची -
1.
अमरकोशः,अमरसिंहः,चौखम्बाकृष्णदासअकादमी,वाराणसी,तृतीयसंस्करणम्,2010
2.
अलङ्कारकौस्तुभम्, स्वोपज्ञटीकासहितम्, आचार्यविश्वेश्वरपाण्डेयः,
निर्णयसागरप्रेस, मुम्बई,1898
3.
औचित्यविचारचर्चा, क्षेमेन्द्रः, चौखम्बाकृष्णदास अकादमी, वाराणसी,
तृतीयसंस्करणम्, 2010
4.
काव्यप्रकाशः,मम्मटः, व्याख्याकार वामनझलकीकरः, परिमल पब्लिकेशन, नवदेहली,
पुनर्मुद्रितसंस्करणम्,2008
5.
काव्यादर्शः, आचार्यदण्डी,नागपब्लिकेशन,देहली, प्रथमसंस्करणम्1999
6.
काव्यालङ्कारः,भामहाचार्यः,चौखम्बासंस्कृतभवनम्, चतुर्थसंस्करणम् 2009
7.
काव्यालङ्कारः, रुद्रटाचार्यः, वासुदेवप्रकाशन,देहली,प्रथमसंस्करणम्,1965
8.
काव्यालङ्कारसूत्राणि, वामनः, चौखमबासुरभारतीप्रकाशनम्,वाराणसी,
पुनर्मुद्रितसंस्करणम्,2002
9.
चन्द्रालोकः, जयदेवः,चौखम्बासुरभारतीप्रकाशनम्,वाराणसी,पुनर्मुद्रितसंस्करणम्,2000
10. दशरूपकम्,
धनञ्जयः,चौखम्बासंस्कृतविद्याभवनम्,वाराणसी,पञ्चमसंस्करणम्,1976
11. ध्वन्यालोकः,आनन्दवर्धनः,विद्याभारतीसंस्कृतग्रन्थमाला,पुनर्मुद्रितसंस्करणम्,2009
12. नाट्यशास्त्रम्, भरतमुनिः,सम्पूर्णानन्दसंस्कृतविद्यालयः,वाराणसी,प्रथमसंस्करणम्,2001
13. भावश्रीः (पत्रकाव्यसङ्ग्रहः) – डॉ.हिमांशुगौडः / True
Humanity Foundation Ghaziabad,2020
14. रघुवंशमहाकाव्यम्,कालिदासः,रा.सं.संस्थानम्,पुनर्मुद्रितसंस्करणम्2011
15. रसगङ्गाधरः,पं.राजजगन्नाथाचार्यः,चौखम्बाविद्याभवनम्,पुनर्मुद्रितसंस्करणम्,2008
16. रसविमर्शः,डॉ.राममूर्तित्रिपाठी,विद्यामन्दिर,वाराणसी,प्रथमसंस्करणम्,1965
17. लघुसिद्धान्तकौमुदी,वरदराजाचार्यः,गीताप्रेसगोरखपुर,त्रिंशत्संस्करणम्,वि.सं.-2060
18. वक्रोक्तिजीवतम्,
कुन्तकः,चौखमबा-अमरभारती-प्रकाशनम्,पुनर्मुद्रितसंस्करणम्,2011
19. वैयाकरणसिद्धान्तकौमुदी(मूलमात्रम्)-भट्टोजिदीक्षित/वासुदेवशर्मा, 2010-चौखम्बा विद्याभवन
वाराणसी ।
20. शृङ्गारप्रकाशः, भोजराजः, प्रकाशकौ - इन्दिरागाँधीराष्ट्रियकलाकेन्द्रम्,
कालिदाससंस्कृतसंस्थानञ्चेत्युभौ, प्रथमसंस्करणम्,2006
21. संस्कृतकाव्यशास्त्र का इतिहास,डॉ.पी.वी.काणे,पञ्चमपुनर्मुद्रण,देहली,2015
22. संस्कृतसाहित्य का बृहद् इतिहास, प्रो.गजाननशास्त्री
मुसलगांवकर,उ.प्र.सं.सं.लखनऊ,1999
23. साहित्यदर्पण,विश्वनाथाचार्यः,चौखम्बाकृष्णदासअकादमी,वाराणसी,द्वादशसंस्करणम्,2007
[1] वै.सि.कौ.भ्वा.धातु.८१४
[2] वै.सि.कौ.मू.मा. उणा.प्र.४-२१८
[3] भावश्रीः ८५ पृ. (आचार्यजैनेन्द्रभारद्वाजाय लिखितपत्रे)
[4] तत्रैव १२३ पृ. (वाचस्पतिमिश्राय लिखितपत्रे)
[5] तत्रैव १५७ पृ. (श्रीमहेशझाभ्यो लिखितपत्रे)
[6] तत्रैव १४१ पृ. (श्रीस्वरूपानन्दसरस्वतीभ्यो लिखितपत्रे)
[7] तत्रैव १४१ पृ. (श्रीस्वरूपानन्दसरस्वतीभ्यो लिखितपत्रे)
[8] तत्रैव ९६ पृ. (प्रो.जनार्दनमणिपाण्डेयाय लिखितपत्रे)
[9] भावश्रीः १०१ पृ. (सन्दीपोनियालाय लिखितपत्रे)
[10] भावश्रीः ८० पृ. (नवीनतिवारिणे लिखितपत्रे)
[11] तत्रैव ९६ पृ. (प्रो.जनार्दनमणिपाण्डेयाय लिखितपत्रे)
[12] तत्रैव १०७ पृ. (अखिलेशत्रिपाठिने लिखितपत्रे)
[13] भावश्रीः ९८ पृ. (स्वामित्र्यम्बकेश्वरचैतन्याय लिखितपत्रे)
[14] अस्माभिः सङ्गीतादिकसक्तैः काव्यरसिकैश्च, श्रीशैलजायाः पूजया अपि स्वकः
कालो व्यतीतः ।
[15] भावश्रीः ११० पृ. (योगेशकुमाराय लिखितपत्रे)
[16] साहि.दर्प. दश.परि.
[17]
भावश्रीः ११९ पृ.
(राधावल्लभत्रिपाठिने लिखितपत्रे)
[18] भावश्रीः ११९ पृ. (राधावल्लभत्रिपाठिने लिखितपत्रे)
[19] तत्रैव ११७ पृ. (चान्दकिरणसलूजाभ्यः लिखितपत्रे)
[20] तत्रैव ११६ पृ. (चान्दकिरणसलूजाभ्यः लिखितपत्रे)
[21] भावश्रीः ९९ पृ. (श्रीमत्त्र्यम्बकेश्वरचैतन्यमहाराजाय
लिखितपत्रे)
[22] साहि.दर्प.प्र.परि.कारि.-३
[23] साहि.दर्प. तृ.परि.
[24] भावश्रीः ७६-७७ पृ.(श्रीमत्त्र्यम्बकेश्वरचैतन्याय
लिखितपत्रे)
[25] तत्रैव ६२ पृ. (श्रीज्ञानेन्द्रपाठकाय लिखितपत्रे)
[26] भावश्रीः ४१ पृ. (प्रो.एम्.चन्द्रशेखरेभ्यः लिखितपत्रे)
[27] भावश्रीः १०८ पृ. (अखिलेशत्रिपाठिने लिखितपत्रे)
[28] तत्रैव ११४ पृ. (चान्दकिरणसलूजाभ्यः लिखितपत्रे)
[29] तत्रैव १२० पृ. (राधावल्लभत्रिपाठिने लिखितपत्रे)
[30] तत्रैव १३ पृ. (श्रीबाबागुरवे लिखितपत्रे)
[31] तत्रैव ४० पृ. (एम्.चन्द्रशेखरेभ्यः लिखितपत्रे)
[32] भावश्रीः १२६ पृ. (वाचस्पतिमिश्राय लिखितपत्रे)
[33] भावश्रीः ६३ पृ. (श्रीज्ञानेन्द्रपाठकाय लिखितपत्रे)
[34] भावश्रीः ५२-५३ पृ. (श्रीखेमचन्दाय लिखितपत्रे)
[35]
भावश्रीः २० पृ
(आचार्यजीतवे लिखितपत्रे)
[36] भावश्रीः २५ पृ. (श्रीओमशर्मणे लिखितपत्रे)
[37] तत्रैव ९८ पृ. (स्वामित्र्यम्बकेश्वरचैतन्याय लिखितपत्रे)
[38] तत्रैव ११५ पृ. (चान्दकिरणसलूजामहोदयाय लिखितपत्रे)
[39] तत्रैव १२६ पृ. (वाचस्पतिमिश्राय लिखितपत्रे)
[40] तत्रैव ५८ पृ. (प्रो.प्रकाशपाण्डेयाय लिखितपत्रे)
[41] तत्रैव ६८ (दीपकहरिदत्तशर्मणे लिखितपत्रे)
[42] तत्रैव १२१ पृ.
(राधावल्लभत्रिपाठिने लिखितपत्रे)
[43] तत्रैव १२४ पृ. (वाचस्पतिमिश्राय लिखितपत्रे)
[44] तत्रैव १२३-१२४ पृ. (वाचस्पतिमिश्राय लिखितपत्रे)
[45] तत्रैव १२९-१३० पृ. (श्रीनिवासबरखेड़िमहोदयाय लिखितपत्रे)
[46] तत्रैव १३६ पृ. (आचार्यदिवाकरवशिष्ठाय लिखितपत्रे)
[47] तत्रैव ८८ पृ. (जैनेन्द्रभारद्वाजाय लिखितपत्रे)
[48] तत्रैव ५५-५६ पृ. (श्रीकैलासचन्द्रदाशाय लिखितपत्रे)
[49] बुधश्वेतयुक्तः – बुधेन, श्वेतेन
(शुक्रेण) च युक्तः ।
[50] भावश्रीः ९६ पृ. (प्रो.जनार्दनमणिपाण्डेयाय लिखितपत्रे)
[51] तत्रैव १२१ पृ. (राधावल्लभत्रिपाठिने लिखितपत्रे)
[52] भावश्रीः ५४ पृ. (डॉ.कैलासचन्द्रदाशाय लिखितपत्रे)
[53] तत्रैव ३३-३४ पृ. (पद्मश्री-अभिराजराजेन्द्रमिश्राय
लिखितपत्रे)
[54] तत्रैव १३२ पृ. (श्रीरमाकान्तशुक्लाय लिखितपत्रे)
[55] तत्रैव ११९ पृ. (राधावल्लभत्रिपाठिने लिखितपत्रे)
[56] तत्रैव ६ पृ.
(श्रीबाबागुरुभ्यो लिखितपत्रे)
[57] तत्रैव १०४ पृ.
(कौस्तुभमिश्राय लिखितपत्रे)
[58] तत्रैव ४५ पृ. (प्रो.एम.चन्द्रशेखरमहोदयेभ्यः लिखितपत्रे)
[59] तत्रैव ३१ पृ. (प्रो.हंसधरझाभ्यः लिखितपत्रे)
[60] भावश्रीः ३४ पृ. (प्रो.एम्.चन्द्रशेखरेभ्यः लिखितपत्रे)
[61] तत्रैव ५१ पृ. (प्रो.एम्.चन्द्रशेखरेभ्यः लिखितपत्रे)
[62] भावश्रीः ११८ पृ. (चान्दकिरणसलूजामहोदयाय लिखितपत्रे)
[63] तत्रैव ७४-७५ पृ. (आचार्यजैनेन्द्रभारद्वाजाय लिखितपत्रे)
No comments:
Post a Comment