वर्षन्ति मेघाश्च गृहाद्बहिर्मे भावाम्बुदाश्चित्ततले तथैव रात्रौ तृतीते प्रहरेऽधुनाहं जागर्मि विद्वन्निति जीवनम्मे।।१।। शीतानिलो मां स्पृशति क्वचिच्च गताद्य विद्युत् तमसां च राज्ये पुरे न जागर्ति जनोऽन्य एवं यथाहमत्रारचयामि चिन्त्यम्।।२।। मेघध्वनिश्चाम्बुनिपातशब्दो विशत्यहो कर्णयुगे सुखङ्कृत् मृद्गन्धिराप्नोत्यपि नासिकां मे मध्ये क्वचिच्छ्वेततडित्सशब्दा।।३।। कीटश्च कश्चित् सततं विरौति गेहे पुरस्थे मशका न सन्ति न वायुनाढ्यं गृहमेतदस्ति लङ्कादिशामुख्यकपाटवत्वात्।।४।। वृष्टिस्सुतीव्राप्यधुना पतेच्च पार्श्वस्थकक्षे जनकोऽपि शेते स वा कदाचिद्यदि जागृतस्स्यात् शेतुं वदेन्मामिति मेऽस्ति शङ्का।।५।। हे काव्यराजो झटिति ब्रुवन्तु हे शब्दराजो मन उद्दिशन्तु केयं गतिर्मां नयतीव यात्र वृष्ट्यम्बुरावश्रवणैकलोके।।६।। कोऽहं हिमांशुर्न न वेद्मि किञ्चित् किं वा शिवांशुर्वचसा गृणानि? अहोऽनुभूयैव सदात्मलोकं ह्यस्मादृशा: सूक्ष्मतया वहन्ति।।७।। उत्थाय मध्याह्नभवे च सूर्ये पित्रिष्टलोकस्य चरामि चर्यां अरे मदीयं हृदयस्थतत्त्वं कोऽस्मीति यानि क्व च संवदेर्माम्।।८।। भ्रा...