।। शाब्दिकमणिश्रीमद्ब्रजभूषणौझाभ्य: पत्रम् ।। ***** विद्वन्! हे पदशास्त्रतीव्रमतियुक्काशीपुरप्रीतिमन्! ओझाविप्रकुलप्रतिष्ठितजने! विद्वज्जनानन्दद! शिष्यव्यूहपदप्रसारणरत! श्रौताननास्यो भवान्! मन्ये पुण्यवशाल्लभन्त इव तल्लब्धं हि यच्छ्रीमता।।१।। श्रीमन्शास्त्रसुधानिमज्जितधियां हर्येकचिन्तावताम् संसारस्य हलाहलैर्न भवतान्मृत्योर्भयं कर्हिचित् तस्माद्योऽयमहं हिमांशुपदभाक्काव्येऽधुना सक्तिमान् किन्तु व्याकरणं भवत्सुमुखतस्संश्रोतुमीहे क्वचित्।।२।। क्वाहं किञ्च भणामि वाणि! वणिजां नेव व्यनज्मि व्रजिन्! यत्तु श्रीद्विजराजसूक्तिशरणं तन्नैमि नाहञ्च वा शास्त्रम्मद्धृदयस्य सन्दिशति यद्यच्चोद्यते शम्भुना तेनैवात्र गतीस्तनोमि शिववन्! शब्दप्रथासूत्रधृत्।।३।। लब्धं व्याकरणं हि येन, च गुरोश्श्रीरामयत्नाभिधात् (यद्वा श्रीपुरुषोत्तमाख्यविबुधाट्टीकादिभिस्संश्रितम्) नूनम्मोद इव प्रजायत उत प्रादुर्भवेन्नव्यता मच्छिष्योऽयमहो महेश्वरपथे शब्दात्मके धावति ओझाश्रीब्रजभूषणो गुरुहृदि प्रीतिश्च सञ्चिन्तनै:।।४।। अद्याऽहो भवतां प्रपाठितजना अध्यापयन्तो बुध! सम्मानं सुखमाप्नुवन्ति धनितां शब्दैकशास...