Skip to main content

बाबा रामदेव के लिए संस्कृत-श्लोकात्मक पत्र


।। योगगुरवे स्वामि-रामदेवाय पत्रम् ।।
---------------
शास्त्राचारपथप्रवर्धितगुरुं नानासुशिक्षाप्रदं
लोकाचारयुतं तथात्मपथिकं कल्याणसंदर्शिनं
श्रीमद्भारतभूप्रियं प्रियकरं प्रेमैकबोधप्रदं
योगाचार्यपदप्रतिष्ठितगुरुं श्रीरामदेवं नुम: ।।१।।
यो योगस्थितमानसोsपि जनताकल्याणकार्ये रत:
धृत्त्वा वित्तयशोगृहाणि पुरुषस्तेभ्य: पृथक् तिष्ठति
यो भोगे समुपस्थितेsपि विरतो ब्रह्मात्मनिष्ठस्सदा
तं योगर्षिगुरुं नुमो जगति वै पातंजलस्थापकम् ।।२।।
के ते वाssत्मसुखं विहाय पुरुषा: लोकाय सौख्यप्रदा:
के वित्तेषु निमज्जिता न रमणीरक्ता भवन्तीव वा
नैरोग्यं ददतीति संयमपरा के सद्गुणप्रेरका:
सर्वेषामिदमेकमुत्तरमहो श्रीरामदेवा हि ते ।।३।।
भो भो व्याकरणप्रिय! श्रुतिविदां मान्यश्श्रुतिश्रीयुत!
श्रीमान्सज्जनवर्धनाग्रसरणोsस्मच्छास्त्रसंरक्षक!
भो विद्वज्जनवित्तमानकरण! ब्रह्मत्त्वविख्यापक!
जीवेद्वर्षशतं भवान् भुवि सदा श्रीरामदेवो गुरु: ।।४।।
त्वं यज्ञप्रिय ! वेदतत्त्ववदनो धीमज्जनैरर्चित:
त्वं कारुण्यनिधिर्दयार्द्रहृदयस्त्वं चार्यमार्गार्चक:
धत्से योगिशिरोमणे! स्वहृदये नैवाभिमानं क्वचित्
तस्मात् त्वां प्रणमामि भो यतिवर! त्वं वै शतं जीवतात् ।।५।।
किं किं चाद्य वदानि ते हि मतिमन् धूर्ता सुमानं गता: 
ये वै निष्कपटास्त एव सकलैर्दुष्टैस्सदा लुण्ठिता:
राजानोsपि धनं ददत्यपि, च ये हाडम्बरं कुर्वते
विद्वान्सं सरलं न कोsपि कविताभूषं समालिङ्गति।।६।।
केचित्संस्कृतसुप्रचारकरणायार्थं मुदा भुञ्जते
केचिच्चापि पदप्रतिष्ठितजना: आत्मीयमायुञ्जते
हा हा निश्छलतोच्छलज्जलरव: कस्मिञ्जने गुञ्जति
दृष्ट्वैतत्कविताsपि शोचति कवे:, धैर्यं न को मुञ्चति ।।७।।
केचिच्चाटुवचो ब्रुवन्ति धनिनामग्रे प्रलब्धुं धनम्
केचिद्यान्ति पदं द्रुतं , कुलपते: पादावलेहादिह
विक्रीणन्ति चरित्रमेव च परे भोगाय च प्रत्यहं
नैष्कापट्यविलुप्तिरद्य सततं संलोक्यते चाभित:।।८।।
(मन्ये भूतलवास एव ह कवे: नाद्योचितं वर्तते।।)
श्रीमन्! योगविबोधकारिपुरुष! त्वं सत्पथे वर्तसे
नैषा चाद्य तवोन्नतिश्च कुजनेभ्यो रोचते कर्हिचित्
तस्मात्ते , भवतां समुक्तवचसामन्यार्थविज्ञापनात्
सर्वत्राsपयश:प्रसारणरता: धास्यन्ति किं तेsशुभम् ?।।९।।
योsयं चाद्य हिमांशुरित्यभिहितो गौडश्च पत्रं लिखेत्
सोsयं काव्यविलासकारिपुरुषैर्ज्ञेयो मनोमोदक:
नाsहं विज्ञसभासु यामि मतिमन्! जानाति को मादृशम्
पद्यैरुल्लसितैस्सुगन्धितसुमैर्ग्रन्थामि मालां च ते।।१०।।
क्व रामदेवो भुवि योगिराड् हो
हिमांशुगौडो द्विजराट् क्व लोक्य:
हृज्जात-भावाश्रितकाव्यवल्लीं
तनोमि पद्मालयसौख्यमल्लीम्* ।।११।।
---------
*पद्मालयस्य सौख्यं मल्लीत्याख्यं पुष्पम् , अथवा मल्ली चन्द्रिकेति ज्ञेया ।
----------
प्रेषको हिमांशुर्गौडो लेखनसमयो दिनांकश्च - ०२:०८ मध्याह्ने, २८/०९/२०१९
गाजियाबादस्थे गृहे।
---++++----

Comments

Popular posts from this blog

संस्कृत सूक्ति,अर्थ सहित, हिमांशु गौड़

यत्रापि कुत्रापि गता भवेयु: हंसा महीमण्डलमण्डनाय हानिस्तु तेषां हि सरोवराणां येषां मरालैस्सह विप्रयोग:।। हंस, जहां कहीं भी धरती की शोभा बढ़ाने गए हों, नुकसान तो उन सरोवरों का ही है, जिनका ऐसे सुंदर राजहंसों से वियोग है।। अर्थात् अच्छे लोग कहीं भी चले जाएं, वहीं जाकर शोभा बढ़ाते हैं, लेकिन हानि तो उनकी होती है , जिन लोगों को छोड़कर वह जाते हैं ।  *छायाम् अन्यस्य कुर्वन्ति* *तिष्ठन्ति स्वयमातपे।* *फलान्यपि परार्थाय* *वृक्षाः सत्पुरुषा इव।।* अर्थात- पेड को देखिये दूसरों के लिये छाँव देकर खुद गरमी में तप रहे हैं। फल भी सारे संसार को दे देते हैं। इन वृक्षों के समान ही सज्जन पुरुष के चरित्र होते हैं।  *ज्यैष्ठत्वं जन्मना नैव* *गुणै: ज्यैष्ठत्वमुच्यते।* *गुणात् गुरुत्वमायाति* *दुग्धं दधि घृतं क्रमात्।।* अर्थात- व्यक्ति जन्म से बडा व महान नहीं होता है। बडप्पन व महानता व्यक्ति के गुणों से निर्धारित होती है,  यह वैसे ही बढती है जैसे दूध से दही व दही से घी श्रेष्ठत्व को धारण करता है। *अर्थार्थी यानि कष्टानि* *सहते कृपणो जनः।* *तान्येव यदि धर्मार्थी* *न  भूयः क्लेशभाजनम्।।*...

Sanskrit Kavita By Dr.Himanshu Gaur

शान्तविलास, पण्डितराज जगन्नाथ विरचित

 विशालविषयाटवीवलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्‌॥१॥ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम्‌। प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै- र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः॥२॥ स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्‌। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥३॥ कलिन्दगिरिनन्दिनीतटवनान्तरं भावयन्‌ सदा पथि गतागतक्लमभरं हान्‌ प्राणिनाम्‌। लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः॥४॥ वाचा निर्मलया सुधामधुरया यां नात्ग शिक्षामदा- स्तां स्वप्नेऽपिन संस्मराम्यहमहंभावावृतो निस्त्रपः। इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः॥५॥ पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्पराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः॥६॥ मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायिकतिध...