Skip to main content

।। श्रीरघुनाथाश्रम-कार्यक्रम:।।



✍✍✍✍✍
जयति ह रघुनाथस्याश्रम: छात्रवर्गै:
हरिचरितसुधाभिस्सिञ्चितस्सर्ववन्द्य:
बहुविधशुभशास्त्रैरर्चनादेवकार्यै:
यमनियमजपैश्श्रीकर्षिमुद्वर्षिभात:।।१।।

जिल्लाध्यक्षमहोदयस्य नितरां कुर्मो वयं स्वागतं
आगत्य द्विजमण्डले शुभमये श्रीसंस्कृतस्यालये
येनास्मत्सुखवर्धनं कृतमहो धन्या वयं चाऽधुना
अन्यांश्चाप्यतिथीन् नुमस्सुरगिरामुद्घोषकार्यालये।।२।।

चन्दौसीनगरस्य संस्कृतगृहं विद्यार्थिभिस्सङ्कुलम्
छात्रावासविकासहासनिरतं चाऽध्यापकैर्भूषितं
साहित्यादिकनैकशास्त्रलसितं कार्येषु सन्तत्परम्
श्रीविश्वासकुमारनामकगुरो: प्राचार्यताशोभितम्।।३।।

यत्राऽऽस्ते रघुनाथमन्दिरमहो चित्तादिसन्तोषकम्
प्रातर्वा भ्रमणाय नागरजनैश्चात्रैव संश्रीयते
पाठप्रेक्षपरीक्षवीक्षणविधौ सर्वोऽत्र दक्षायते
श्रीविश्वासकुमारनामकबुध: प्राचार्यभागस्य वै ।।४।।

शास्त्र्याचार्यपदे प्रयान्ति पुरुषा: यस्मादधीत्य द्रुतं
वेदज्ञानविभूषितो भवति वै यत्र द्विजानां गण:
श्रीविश्वासकुमारनामकबुधस्यादेशनैश्चाल्यते
चन्दौसीरघुनाथसंस्कृतमहाविद्यालयो भ्राजते।।५।।

आनन्दब्रह्मचारी प्रथितगुणवपुश्शोभते नैकवर्षै:
नानाचार्यत्त्वमाप्त: शिवसदनसमर्चारतो यत्र नित्यं
श्रीमान् योऽत्राभिषेकोऽनुज उत भवेदाश्रमस्य प्रियोऽसौ
शोभन्ते राघुनाथे बहुविषयरता: संस्कृतश्रीयुतास्ते।।६।।

अत्र योगश्च साहित्यशास्त्रं तथा
चांग्लभाषा च हिन्दी समाशिक्ष्यते
श्रद्धया चापि विश्वासयुक्तैश्श्रमै:
श्रीलविश्वासविज्ञैर्न किं लभ्यते?७?

वायुयानं च वा वारियानं च वा
भूमियानं शतं यत्र निर्मीयते
अस्त्रशस्त्रादिविज्ञानसंशोभितं
संस्कृतं ज्ञानवारां निधिस्सर्वदा।।८।।

औषधं वा चिकित्साऽथवा वैद्यकं
शल्यविज्ञानमस्थ्यादिसंयोजकम्
स्वास्थदं रोगहं दीर्घजीव्यप्रदं
संस्कृते किं न बोधान्वितं वर्तते??९।।

अश्वशास्त्रं च वा हस्तिशास्त्रं च वा
कामशास्त्रं च वा तन्त्रशास्त्रं च वा
योगसाङ्ख्यादिवेदान्ततर्कादय:
दर्शनानीह षट् संस्कृते किं न वै?१०?

धर्म-कर्मादयो नीतिरीत्यादयो
राजतन्त्रादयो गुप्तमन्त्रादयो
पञ्चतन्त्रं तथा काव्यवारां निधि:
संस्कृते किं न संदृश्यते वर्तते?११?

विरमामि स्ववाणीं वा सर्वस्सौख्यं समीहताम्।
देववाणी जयेदत्र संसारे सर्वदु:खहा ।।१२।।

©हिमांशुगौड:

Comments

Popular posts from this blog

संस्कृत सूक्ति,अर्थ सहित, हिमांशु गौड़

यत्रापि कुत्रापि गता भवेयु: हंसा महीमण्डलमण्डनाय हानिस्तु तेषां हि सरोवराणां येषां मरालैस्सह विप्रयोग:।। हंस, जहां कहीं भी धरती की शोभा बढ़ाने गए हों, नुकसान तो उन सरोवरों का ही है, जिनका ऐसे सुंदर राजहंसों से वियोग है।। अर्थात् अच्छे लोग कहीं भी चले जाएं, वहीं जाकर शोभा बढ़ाते हैं, लेकिन हानि तो उनकी होती है , जिन लोगों को छोड़कर वह जाते हैं ।  *छायाम् अन्यस्य कुर्वन्ति* *तिष्ठन्ति स्वयमातपे।* *फलान्यपि परार्थाय* *वृक्षाः सत्पुरुषा इव।।* अर्थात- पेड को देखिये दूसरों के लिये छाँव देकर खुद गरमी में तप रहे हैं। फल भी सारे संसार को दे देते हैं। इन वृक्षों के समान ही सज्जन पुरुष के चरित्र होते हैं।  *ज्यैष्ठत्वं जन्मना नैव* *गुणै: ज्यैष्ठत्वमुच्यते।* *गुणात् गुरुत्वमायाति* *दुग्धं दधि घृतं क्रमात्।।* अर्थात- व्यक्ति जन्म से बडा व महान नहीं होता है। बडप्पन व महानता व्यक्ति के गुणों से निर्धारित होती है,  यह वैसे ही बढती है जैसे दूध से दही व दही से घी श्रेष्ठत्व को धारण करता है। *अर्थार्थी यानि कष्टानि* *सहते कृपणो जनः।* *तान्येव यदि धर्मार्थी* *न  भूयः क्लेशभाजनम्।।*...

Sanskrit Kavita By Dr.Himanshu Gaur

शान्तविलास, पण्डितराज जगन्नाथ विरचित

 विशालविषयाटवीवलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्‌॥१॥ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम्‌। प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै- र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः॥२॥ स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्‌। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥३॥ कलिन्दगिरिनन्दिनीतटवनान्तरं भावयन्‌ सदा पथि गतागतक्लमभरं हान्‌ प्राणिनाम्‌। लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः॥४॥ वाचा निर्मलया सुधामधुरया यां नात्ग शिक्षामदा- स्तां स्वप्नेऽपिन संस्मराम्यहमहंभावावृतो निस्त्रपः। इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः॥५॥ पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्पराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः॥६॥ मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायिकतिध...