Skip to main content

शब्दब्रह्मगतं प्रणौमि सततं श्रीरामयत्नं गुरुम्

 ||  ||

************

काश्यां यस्य निशम्य शब्दपरकां नानार्थचिन्तावलीं

छात्राश्चैव यतो ह्यधीत्य मुदितास्सिद्धान्तमुक्तावलीं

विद्वत्सज्जनलोकनैर्भवति वा यस्येह दीपावली

तस्मै च प्रददामि देवनगरस्थायाद्य भावाञ्जलिम्||१||


यो वै शब्द इति प्रकाशितपथे छात्रान्नवान् वर्धयन्

ब्रह्मत्वं प्रतिपादयन् पदमुचां वाचाञ्च तत्त्वं वदन्

सोऽसौ नागपदैकचिन्तनरत: पातञ्जलं धारयन्

शैवं लोकमगात्सहस्रजनतां दिव्यार्थमुत्प्रेरयन्||२||


काश्यां देवनदीतटे घटपटाद्यर्थं समुद्बोधयन्

न्यायाश्लिष्टपदप्रचारणविधिं विद्यार्थिनश्शिक्षयन्

वेदास्यार्थमुपास्यतामिति जनानाजीवनञ्जीवयन्

शब्दब्रह्म गतश्श्रुतं गुरुवरश्श्रीरामयत्नस्सुधी:||३||


भाष्ये कैय्यटवाक्समुद्रसलिलं योऽगस्त्यवत् पीतवान्

शब्दानां महिमानमेव सततं चाजीवनं गीतवान्

मञ्जूषां शिरसा प्रधार्य सततं नागेशभट्टस्य यो

वैलक्षण्यमथाह शब्दजगतां जातस्स शब्दोऽधुना||४||


देहेऽप्यस्ति विभिन्नवाक्स्वरलयाबद्धा तरङ्गान्विता

नानाभावविलासबोधकरणी शुक्लाम्बरा कुत्रचित्

आकाशे तडिदुद्भवेत्क्षणभवा तद्वत्प्रकाशान्विता

हेत्थं योऽर्थमबोधयत् सुवचसां वाचि प्रलीनोऽधुना||५||


काशीयं मम सुप्रिया कथमहं त्यक्त्वा प्रयामि क्वचित् 

त्वां नाना न हि रोचते सुरपुरं मह्यं न सौख्यं धनं 

इत्याद्यैश्च पुराणशास्त्रगदितै: काशीरसाकाशितै-

रर्थैर्जीवनमुन्नयन् शिवमगाच्छ्रीरामयत्नो गुरु:||६||


काशीवासविभासजीवनवशादन्धं तमो वारयन्

पाणिन्यर्थसमेतसूत्रसरणीं छात्रेषु विस्तारयन्

अज्ञानादिमनोमलं च जडतामुत्पाटयन् कौशलैर्

योऽजीवज्जनताप्रियोऽप्रियहरश्श्रीरामयत्नस्स वै||७||


लब्ध्वा राष्ट्रपतिप्रभाविलसितं पद्मादिसम्भूषणं

हृत्वा द्वेषभवं विधर्मिवचसां यच्छाब्दिकं दूषणं

शब्दाम्रस्य सदाऽकरोदहरहश्चित्तेन यश्चूषणं

सोऽसौ शब्दभृताम्प्रमाणितगुरुश्श्रीरामयत्नो गत:||८||


दृष्ट्वा छात्रगणान्सुतानिव सदा स्नेहेन यो हृष्यति

पात्रं शास्त्रगुणस्य दिव्यनयनैर्यो दूरत: पश्यति

सारल्यादिसुरप्रवृत्तिघटकैर्दौ:ख्यं च यो नश्यति

तस्यालोक्य दिवप्रयाणमधुना भोज्यं न मे रोचते||९||


हे विद्वन् बहुधा शतैश्च शतधा त्वद्वेतृता संश्रुता

दौर्भाग्यं न कदापि भौतिकतया साक्षान्मयालोकित:

सम्बन्धो भवति प्रवेतृषु मुदा वाचां, न वै दैहिकं

तस्मात्त्वां परिदृष्टवान् शतपथैरित्येव सञ्चिन्तये||१०||


हे विद्वंस्तव शब्दकीर्तिमहिमा दूराज्जनैर्गीयते

श्रीमंस्ते पदपाठनप्रवणता पुण्यान्विता लक्ष्यते

बोद्ध्रीशाशुविबोधदा च शुभता गुण्यान्विता लोक्यते

याते त्वय्यथ शब्दराजि निशि हा निद्रा न मे नेत्रयो:||११||


किन्तु त्वामभिगायति त्रिभुवनं त्वां लोकते लोकराट्

किन्तु त्वामभिवेत्ति शब्दजगति प्रत्येकमुत्कण्ठया

किन्तु त्वाम्परिहृष्यमाणहृदयैर्गायन्ति मेघस्वरास्

त्वं यातोऽपि न यात इत्यहमहो तुष्यामि चित्तेऽधुना||१२||


कीदृग्भावगिरां प्रयामि मतिमन् पारं न विज्ञायते

यातानां च महात्मनां स्मृतिरतो मत्तो न निर्गच्छति

तस्माद्भावनिवेदनाय शतधा सोऽयं प्रकल्पारतस्

त्वत्कीर्तौ हि हिमांशुगौडपदभाक्सक्त: प्रयाते त्वयि||१३||


देहं नो गणयन्ति शाब्दिकवरास्सद्ब्रह्मजिज्ञासवस्

तस्मान्नष्ट इतीह भावपरता लेशा न तेषु क्वचित्

आत्मा सत्यमिति प्रभाविलसिताश्शैवेन सूद्भासितास्

तद्वच्च प्रचरन्ति रामयतना: काशीविभाकाशिता:||१४||


शास्त्रायार्पयतु स्वजीवनमिति प्रारीरचज्जीवनं

शास्त्रायैव समं धनं च तृणवत् त्यक्त्वा सुखैस्संवसेत्

शास्त्राधिष्ठितनिष्ठया शिवगुरो: प्रीतिं प्रविन्देन्मुदा

यो वक्ति स्म पुरारिशूलनगरीवासी स काशीवर:||१५||

•••••••••

हिमांशुर्गौड:

०९:२७ रात्रौ

२०/०९/२०२२

Comments

Popular posts from this blog

संस्कृत सूक्ति,अर्थ सहित, हिमांशु गौड़

यत्रापि कुत्रापि गता भवेयु: हंसा महीमण्डलमण्डनाय हानिस्तु तेषां हि सरोवराणां येषां मरालैस्सह विप्रयोग:।। हंस, जहां कहीं भी धरती की शोभा बढ़ाने गए हों, नुकसान तो उन सरोवरों का ही है, जिनका ऐसे सुंदर राजहंसों से वियोग है।। अर्थात् अच्छे लोग कहीं भी चले जाएं, वहीं जाकर शोभा बढ़ाते हैं, लेकिन हानि तो उनकी होती है , जिन लोगों को छोड़कर वह जाते हैं ।  *छायाम् अन्यस्य कुर्वन्ति* *तिष्ठन्ति स्वयमातपे।* *फलान्यपि परार्थाय* *वृक्षाः सत्पुरुषा इव।।* अर्थात- पेड को देखिये दूसरों के लिये छाँव देकर खुद गरमी में तप रहे हैं। फल भी सारे संसार को दे देते हैं। इन वृक्षों के समान ही सज्जन पुरुष के चरित्र होते हैं।  *ज्यैष्ठत्वं जन्मना नैव* *गुणै: ज्यैष्ठत्वमुच्यते।* *गुणात् गुरुत्वमायाति* *दुग्धं दधि घृतं क्रमात्।।* अर्थात- व्यक्ति जन्म से बडा व महान नहीं होता है। बडप्पन व महानता व्यक्ति के गुणों से निर्धारित होती है,  यह वैसे ही बढती है जैसे दूध से दही व दही से घी श्रेष्ठत्व को धारण करता है। *अर्थार्थी यानि कष्टानि* *सहते कृपणो जनः।* *तान्येव यदि धर्मार्थी* *न  भूयः क्लेशभाजनम्।।*...

Sanskrit Kavita By Dr.Himanshu Gaur

शान्तविलास, पण्डितराज जगन्नाथ विरचित

 विशालविषयाटवीवलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्‌॥१॥ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम्‌। प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै- र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः॥२॥ स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्‌। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥३॥ कलिन्दगिरिनन्दिनीतटवनान्तरं भावयन्‌ सदा पथि गतागतक्लमभरं हान्‌ प्राणिनाम्‌। लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः॥४॥ वाचा निर्मलया सुधामधुरया यां नात्ग शिक्षामदा- स्तां स्वप्नेऽपिन संस्मराम्यहमहंभावावृतो निस्त्रपः। इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः॥५॥ पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्पराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः॥६॥ मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायिकतिध...