Skip to main content

॥अशोक जी सिङ्घल भारतात्मा ॥ (संस्कृत-काव्यम्) हिमांशुगौड़

आतिथ्यसद्भावसुधाभिसक्तो

माहात्म्यलोकेषु सदैव सक्तो

सद्धर्मकार्ये हृदयेन रक्तो

हि-अशोकजीसिङ्घल भारतात्मा॥१॥


अङ्गं च बङ्गं ह्यथवा कलिङ्गं

मद्रश्च कार्णाटकमल्लयालम्

हिमाढ्यदेशो जलधिप्रदेशो

एकीकृतो येन नुमो ह्यशोकम्॥२॥


गङ्गातटं वा यमुनातटं वा

सरस्वतीतीर उतास्तु रम्य:

प्रयागराजेऽस्तु तथा त्रिवेणी

एकत्वनिष्ठोऽस्त्यथ भारतात्मा॥३॥


देशे विदेशे निजधर्मवक्ता

"सङ्घ"स्य शक्ते: परिवर्धको य:

हिन्दूद्धृतौ जीवनदानकर्ता

अशोकजीसिङ्घलभारतात्मा॥४॥


अयोध्यया यत्प्रथितं यशश्च

श्रीरामसन्मन्दिरनिर्मितिश्च

हिन्दुत्ववादस्य यशस्तनोति

अशोकजीसिङ्घलभारतात्मा॥५॥


प्राणप्रिया वै खलु मानवाश्च

धर्मप्रियास्सन्ति महात्मलोका:

प्राणप्रमोहं च विहाय रामा-

लयस्य कार्ये रतभारतात्मा॥६॥


जीवन्ति केचिद्धि धनार्जनाय

परे तु केचिद्यशसोऽर्जनाय

धर्मार्जनायापि परे प्रलग्ना:

रामार्जनायास्ति च भारतात्मा॥७॥


यत्संस्कृतेर्मूलमहो गरीयं

यज्जीवनं सौख्यमये युनक्ति

तद्भारतस्यान्तर्हितधर्मरूपं

प्रसारयेत् तत् खलु भारतात्मा॥८॥


वेदेषु सर्वं निहितं सदैव

त्रिकालसत्यं च सदैव वेदा:

तद्रक्षणाय प्रथितप्रयत्नो

अशोकजीसिङ्घलभारतात्मा॥९॥


वेदाच्च शास्त्राणि समुद्भवन्ति

विज्ञानमूला श्रुतिरेव मुख्या

नारायणान्नि:श्वसितस्य रक्षा

तद्ब्राह्मणानां च सदैव धर्म:॥१०॥


तस्यैव कार्यस्य सुनिश्चयार्थं

विप्रप्रसादप्रतिवर्धनार्थं

सम्माननार्थं ननु वैदिकानां

समुद्भवेद् योऽखिलभारतात्मा॥११॥


सङ्कल्पवीरो भुवि कर्मनिष्ठो

जातोऽद्भुतो वेदनिधिर्वरिष्ठो

बुद्ध्या तथा योजनया गरिष्ठश्

शिष्टो ह्यशोकोऽखिलभारतात्मा॥१२॥


मोहान्धकारे निपतन्ति जीवा:

पापेषु कर्मस्वपि खिन्नचित्ता:

कथं विरामं लभतां च शान्तिं

रामे रमध्वं भवहं भजध्वम्॥१३॥


सन्मार्गमेवं परिसंश्रयध्वं

सर्वं हनूमत्प्रभवे कुरुध्वं

एधध्वमर्थे नहि रे ह्यनर्थे

स्पर्धध्वमध्वन्यथ रामनाम्न:॥१४॥



................प्रवर्तमानम्


Comments

Popular posts from this blog

संस्कृत सूक्ति,अर्थ सहित, हिमांशु गौड़

यत्रापि कुत्रापि गता भवेयु: हंसा महीमण्डलमण्डनाय हानिस्तु तेषां हि सरोवराणां येषां मरालैस्सह विप्रयोग:।। हंस, जहां कहीं भी धरती की शोभा बढ़ाने गए हों, नुकसान तो उन सरोवरों का ही है, जिनका ऐसे सुंदर राजहंसों से वियोग है।। अर्थात् अच्छे लोग कहीं भी चले जाएं, वहीं जाकर शोभा बढ़ाते हैं, लेकिन हानि तो उनकी होती है , जिन लोगों को छोड़कर वह जाते हैं ।  *छायाम् अन्यस्य कुर्वन्ति* *तिष्ठन्ति स्वयमातपे।* *फलान्यपि परार्थाय* *वृक्षाः सत्पुरुषा इव।।* अर्थात- पेड को देखिये दूसरों के लिये छाँव देकर खुद गरमी में तप रहे हैं। फल भी सारे संसार को दे देते हैं। इन वृक्षों के समान ही सज्जन पुरुष के चरित्र होते हैं।  *ज्यैष्ठत्वं जन्मना नैव* *गुणै: ज्यैष्ठत्वमुच्यते।* *गुणात् गुरुत्वमायाति* *दुग्धं दधि घृतं क्रमात्।।* अर्थात- व्यक्ति जन्म से बडा व महान नहीं होता है। बडप्पन व महानता व्यक्ति के गुणों से निर्धारित होती है,  यह वैसे ही बढती है जैसे दूध से दही व दही से घी श्रेष्ठत्व को धारण करता है। *अर्थार्थी यानि कष्टानि* *सहते कृपणो जनः।* *तान्येव यदि धर्मार्थी* *न  भूयः क्लेशभाजनम्।।*...

Sanskrit Kavita By Dr.Himanshu Gaur

शान्तविलास, पण्डितराज जगन्नाथ विरचित

 विशालविषयाटवीवलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्‌॥१॥ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम्‌। प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै- र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः॥२॥ स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्‌। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥३॥ कलिन्दगिरिनन्दिनीतटवनान्तरं भावयन्‌ सदा पथि गतागतक्लमभरं हान्‌ प्राणिनाम्‌। लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः॥४॥ वाचा निर्मलया सुधामधुरया यां नात्ग शिक्षामदा- स्तां स्वप्नेऽपिन संस्मराम्यहमहंभावावृतो निस्त्रपः। इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः॥५॥ पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्पराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः॥६॥ मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायिकतिध...