Skip to main content

वित्तेन हीना: पशुभिस्समाना:? संस्कृतकाव्यम् हिमांशुगौड़

 वित्तेन हीना: पशुभिस्समाना:?


[ कियानपि विद्वान्स्यात् स धनवशगीभूय धनिनां दिवानिशं सेवारतो जायते,  क्वचित्तु परिस्थितिजालशतबद्धतया जीवनस्य मूलभूतसुखेभ्योऽपि वञ्चितस्स कथं जीवति, तदत्र वर्णितम्। एते तात्कालिकरूपेणोदितविचारास्सन्ति, अन्यकालेऽस्मात्पृथगपि विचारकल्प उदेतुं शक्नोति। ]
***********
कण्ठे समस्तं भवताच्च शास्त्रं
श्रुतिर्वसेद्वाचि सदा प्रगल्भा
कामं न किञ्चिल्लभते युवत्त्वे
धनेन हीना: पशुभिस्समाना:

आज्ञां धनाढ्यस्य शिरोरुहा स्यात्
तत्कार्यमग्नो‌ऽस्तु सदैव विद्वान्
वृत्तिं ददातीति प्रभुर्मदीयो
विद्यायुतास्तद्वशगा भवन्ति

परस्परं चापि विवादयन्ति
बुधान् स्वदासानिव वर्तयन्तस्
तेऽपीह चाटूक्तिवचांसि होक्त्वा
वित्तेशपादौ मुहुरालिहन्ति

ह्यतो धनस्यैव विभा समन्तात्

मन्त्री भवेत् कोटिधनैस्सुयुक्त:
तद्दासतां याति समस्तराज्यं
तदिङ्गितेनैव वहेच्च वायु:
किं कौलपत्यं किमु बौद्धिकत्वम्!

आदेशतो यस्य समस्तशिक्षा
चलेद् व्यवस्था नयताऽपि वश्या
मूर्खस्स हस्ताक्षरशून्यवान् सन्
ऐश्वर्यमग्नो भुवि दृश्यतेऽहो!

प्रवक्तृतां वाञ्छति यश्च मादृक्
समं वय: कष्टमुखे निपात्य
ऊढ्वा च शास्त्राण्यपि दुष्कराणि
क्व वित्तलेश: क्व च भोगलेश:

आङ्ग्लैर्लसन्तं रमयन्ति नार्य:
श्रीसंस्कृतज्ञं पितृवच्चरन्ति
सम्मानता, नैव च कामदृष्टि:
पठेत्क एवं खलु देवभाषाम्?

ईर्ष्यामहाद्वेषरता बुधाश्च
परस्परं दोषसमीक्षकाश्च
परस्य गुण्यं न वदन्ति तस्माद्
रतिर्हि कस्याऽस्त्विह देववाचि?

न वित्तलेशो न च कामलेशो
न सम्पदां पश्यतु हाऽऽननानि
दिवानिशं वह्निरिवोत्तपेद्यस् 
स शास्त्रकाव्यादिपथव्रतस्स्यात्
*****
हिमांशुर्गौड:
११:२६ मध्याह्न 
०७/०५/२०२३

Comments

Popular posts from this blog

संस्कृत सूक्ति,अर्थ सहित, हिमांशु गौड़

यत्रापि कुत्रापि गता भवेयु: हंसा महीमण्डलमण्डनाय हानिस्तु तेषां हि सरोवराणां येषां मरालैस्सह विप्रयोग:।। हंस, जहां कहीं भी धरती की शोभा बढ़ाने गए हों, नुकसान तो उन सरोवरों का ही है, जिनका ऐसे सुंदर राजहंसों से वियोग है।। अर्थात् अच्छे लोग कहीं भी चले जाएं, वहीं जाकर शोभा बढ़ाते हैं, लेकिन हानि तो उनकी होती है , जिन लोगों को छोड़कर वह जाते हैं ।  *छायाम् अन्यस्य कुर्वन्ति* *तिष्ठन्ति स्वयमातपे।* *फलान्यपि परार्थाय* *वृक्षाः सत्पुरुषा इव।।* अर्थात- पेड को देखिये दूसरों के लिये छाँव देकर खुद गरमी में तप रहे हैं। फल भी सारे संसार को दे देते हैं। इन वृक्षों के समान ही सज्जन पुरुष के चरित्र होते हैं।  *ज्यैष्ठत्वं जन्मना नैव* *गुणै: ज्यैष्ठत्वमुच्यते।* *गुणात् गुरुत्वमायाति* *दुग्धं दधि घृतं क्रमात्।।* अर्थात- व्यक्ति जन्म से बडा व महान नहीं होता है। बडप्पन व महानता व्यक्ति के गुणों से निर्धारित होती है,  यह वैसे ही बढती है जैसे दूध से दही व दही से घी श्रेष्ठत्व को धारण करता है। *अर्थार्थी यानि कष्टानि* *सहते कृपणो जनः।* *तान्येव यदि धर्मार्थी* *न  भूयः क्लेशभाजनम्।।*...

Sanskrit Kavita By Dr.Himanshu Gaur

शान्तविलास, पण्डितराज जगन्नाथ विरचित

 विशालविषयाटवीवलयलग्नदावानल- प्रसृत्वरशिखावलीविकलितं मदीयं मनः। अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्‌॥१॥ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम्‌। प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै- र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः॥२॥ स्मृतापि तरुणातपं करुणया हरन्ती नृणा- मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्‌। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी॥३॥ कलिन्दगिरिनन्दिनीतटवनान्तरं भावयन्‌ सदा पथि गतागतक्लमभरं हान्‌ प्राणिनाम्‌। लतावलिशतावृतो मधुरया रुचा संभृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः॥४॥ वाचा निर्मलया सुधामधुरया यां नात्ग शिक्षामदा- स्तां स्वप्नेऽपिन संस्मराम्यहमहंभावावृतो निस्त्रपः। इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः॥५॥ पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्पराहत यदि क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः॥६॥ मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायिकतिध...