Skip to main content

Posts

श्रीत्र्यम्बकमहाराजपञ्चकम् (Shree Triyambak Maharaaj Panchakam)

संस्कृत कविता चल चायपाने ( Tea Time Sanskrit Poem Chal Chai Paane)

।। चल चायपाने ।। ✍✍✍✍ मित्रम्मदीयं हि नवीननामा, द्विजैस्सदा यो गदितस्तिवारी नब्बू जना यं च वदन्ति भूयः, स बोधयेन्मां चल चायपाने ।।१।। प्रभातकाले च दिनान्तकाले, मध्याह्नकालेऽपि च यः कदाचित् निद्राम्मदीयामपसार्य वक्ति- चल चायपाने! चल चायपाने ।।२।। कार्याच्च विश्रान्तिमवाप्तुकामः मस्तिष्कसंस्फूर्त्तिमवाप्तुकामः। शास्त्रस्य तत्त्वं परिलभ्यतां रे! चल चायपाने! चल चायपाने ।।३।। काव्यानि यस्मात्परिसंस्फुरन्ति, खेदश्च शोकः परिणाशमेति नव्यास्तरङ्गाः हृदये सरन्ति, तस्माद्द्विज!त्वं चल चायपाने ।।४।। पिबन्ति ये नैव कदापि चायं, शास्त्रं नवत्त्वेन न चिन्तयन्ति जीवन्ति तेऽपीह कथं न जाने, चल चायपाने! चल चायपाने ।।५।। शास्त्रार्थगोष्ठ्यामपि शोधगोष्ठ्यां काव्यस्य गोष्ठ्यान्तु विशेषतस्तत् चायं समैस्सभ्यजनैस्सुपेयं, चल चायपाने! चल चायपाने ।।६।। रुष्टो गुरुश्चेद्भगिनी च माता, भ्राता पिता वा दुहिता च भार्या शिष्यश्च मित्रं यदि ते द्विज! त्वं, चायं प्रदेहि द्रुतमेव तेभ्यः ।।७।। चायं सदा पाययति युवा यस्- स्वसुन्दरीं मित्रजनं प्रियां च तस्मान्न खिन्ना भवतीह मुग्धा उपायसारी रतिमाप्नुते सः ।।८।। द्विजा अनेके हि म...

Prakriti Chitran (The Nature View) with Himanshu Gaur

लोकवेदयोः स्वरमाहात्म्यं Lok-Vedyoh Swar-Mahatmyam (Research Paper)