सहनं वै तप: प्रोक्तं, मौनं सर्वत्र साधनम्। जायते स सुखी नूनं पालयेद्यस्तथा व्रतम् सहनेन तपस्याग्निर्वर्धते ब्राह्मणस्य तु। क्रोधेन चैव शापेन सर्वं नश्यति तत्क्षणात्। क्षमया भूर्महत्येषा क्षमयेशो महान् हरि:! क्षमया जीवनं पुंसां क्षमया लोकसंस्थिति:! क्रोधेन क्षणभूतेन नश्यन्ति श्रीलसम्पद:! क्षमयैव महान् भूत्वा मोदते वीर्यवान् भुवि। काव्यान्यद्य स्वतन्त्राणि बाल:! भान्तीव मे नहि। कवयस्स्वार्थसंसिद्ध्यै लिखन्तीह यथा तथा। शतं यद्घटिकामात्रे लिखन्ति कवयश्च ते, नाधुना लोकिता: लोके, ये जातास्ते दिवङ्गता: केचित्स्वकार्यकुशला केचित्परहितावहा: लोकेस्मिन्नैककार्येषु चेन्द्रियार्थेषु तत्परा: केचिद्धनाय जीवन्ति केचिद्भोगाय केवलं, जीवेद्यश्चात्मलब्ध्यै तज्जीवनं धन्यतां व्रजेत् मधुवाक्यप्रदानेन सर्वे तृप्यन्ति मानवा: तस्मान्मधुरता देया सर्वं मधुमयं भवेत्